SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ भेसजेणं पीढ-फलग-सिज्जा-संथारेणं पडिलाभेमाणा बहहिं सीलव्वयगुण-वेरमण-पच्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति॥७३॥ से जहत्ति- तद्यथा श्रमणोपासका: अधिगतजीवाजीवाः उपलब्धपुण्यपापाः, इह प्राय: सूत्रादर्शेषु नानाविधानि सूत्राणि दृश्यन्ते, टीकानुगतं सूत्रं तु प्रायो न दृश्यते, परं इममेव आदर्शम् अङ्गीकृत्य मया विवरणं क्रियते, इति सूत्रांतरविसंवाददर्शनान्न व्यामोहो विधेय इति, ते च श्रावका आश्रव-संवर-वेदना-निर्जरा-क्रियाऽधिकरण-बंध-मोक्षकुशलाः, असहेज त्ति-असहाया अपि देवासुरादिभिः निग्रंथात् प्रवचनात् जैनमतात् अनतिक्रमणीया: अकम्पनीयाः, इणमेव त्ति- अस्मिन्नेव नैर्ग्रन्थे प्रवचने निःशङ्किताः, निष्काङ्क्षा:, निर्वितिकित्साः, लब्धार्था गृहीतार्थाः पृष्टार्था विनिश्चितार्था अधिगतार्था, अस्थिमिजा अस्थिमध्यं यावत् प्रेमानुरागरक्ता दर्शने अत्यन्तं भावितमतय इत्यर्थः अत्रार्थे कथानकं- राजगृहे कश्चित् परिव्राजको विद्यासिद्धो यां यां स्त्रियं रम्यां पश्यति तां ताम् अपहरति, ततो लोकै: नृपाय विज्ञप्तं, राज्ञा उक्तं- गच्छत स्वस्थानं यूयं, सुखं तिष्ठत, अहं तं दुरात्मानं यदि पञ्चषैः दिनैः न लभे तदा वह्नौ प्रविशामि इति, गता नागरिका: स्थानं, राज्ञा आरक्षका: तदन्वेषणाय नियुक्ताः, स्वयं च खड्गपाणिः भ्रमति नृपः, ॥६५॥ १D जहेत्ति २Doकरणं.
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy