________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे द्वितीयमध्ययनम्
से जहत्ति- तद्यथानाम कश्चिद् वृक्षः पर्वताग्रे जातो, मूले छिन्नः शीघ्रं यतो निम्नं नीचं स्थानं तत: पतति, एवमसौ असाधुः अपि नरके पतति, ततोऽपि उद्वृत्तो गर्भाद् गर्भं याति, एवं न तस्य किञ्चित् त्राणं भवति यावद् आगामिनि अपि काले असौ दुर्लभबोधि: स्यात्, एस ठाणे त्ति- तदेतत् स्थानं अनार्यं यावत् एकांतमिथ्यारूपं असाधु, तदेवं प्रथमस्य अधर्मपाक्षिकस्य स्थानस्य विभङ्गो विभागः समाख्यातः ॥६५॥
अहावरे दुच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ, इह खलु पाईणं वा ४ संतेगइया मणुस्सा भवंति तं (जहा)- अणारंभा अपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, सुसीला सुव्वया सुप्पडियाणंदा साहू सव्वाओ पाणाइवायाओ पडिविरया जायजीवाए जाव जे यावण्णे तहप्पगारा सावज्जा अबोहिया कम्मया परपाणपरितावणकरा कजति तओ विप्पडिविरया जावज्जीवाए॥६६॥
अथ अपरस्य द्वितीयस्थानस्य धर्मपक्षस्य विभङ्गः स्वरूपं एवमाख्यायते, यथा प्राच्यादिदिक्षु मध्ये अन्यतरस्यां दिशि सन्ति विद्यन्ते केचिन्मनुष्याः भवन्ति तद्यथा- अनारम्भा अपरिग्रहा धार्मिका धर्मानुगा धर्मिष्ठा धर्मेणैव वृत्तिं कल्पयन्तो विहरन्ति, १B मिथ्यात्वरूपं