SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ I सूत्रकृताङ्ग सूत्र दीपिका। व्याख्या-इदमल्पायुष्कसूत्रमपि स्पष्टं । नवरं यावत्चे न नियन्ते तावत् प्रत्याख्यानस्य विषयः, सेषु वा समुत्पन्नाः संतो विषयतां प्रतिपद्यन्ते ॥ २५ ॥ पुनः श्रावकाणां दिग्वताश्रयेण प्रत्याख्यानविषयं दर्शयति ।। भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, (इत्यादि) जाव अयंपि मेदे से० (सू०) ॥ १॥ २६ ॥ व्याख्या-सुगम, नवरं- देसावगासियंति पूर्वग्रहीतस्य दिगवतस्य योजनशतादिकस्य यत्प्रतिदिनं सक्षिप्तं योजनगतव्रतादिमानं करोति, तद्देमावकाशिकमुच्यते, तथाहि-'पुरत्थापाईण'मिति, 'पुरत्थ 'त्ति प्रातरेव प्रत्या. ख्यानावसरे दिगाश्रितमेवम्भूतं प्रत्याख्यानं करोति, यथा-' प्राचीनं' पूर्वाभिमुखं पूर्वदिशि एतावन्मयाऽद्य गन्तव्यं 'प्रतीचीन' पश्चिमायां दिशि दक्षिणस्यां 'उदीच्या' उत्तरस्यां एतावद् गन्तव्यं, एवं प्रत्यहं प्रत्याख्यानं करोति, तेन च व्रतेन गृहीतपरिमाणात् परेण दंडो निक्षिप्तो-वधस्त्यक्तः, ततश्च स श्रावकः सर्वजीवेषु क्षेमकरोऽहमस्मीत्यध्यवसायी स्यात्, तत्र गृहीतपरिमाणे देशे ये आरेण त्रसाः येषु श्रावकस्यादानतः प्रथमव्रतादारभ्यामरणान्तं दण्डस्त्यक्तः, ते त्रसाः स्वायुष्कं परित्यज्य तत्रैव गृहीतमानदेश एवं त्रसत्वेन प्रत्यायान्ति, गृहीतपरिमाणदेशे वसायुकं परित्यज्य त्रसेम्वेवोत्पद्यन्ते, ते श्राद्धस्य सुप्रत्याख्यानं स्यादुभयथापि त्रसत्वसद्भावादिति । शेषं सुगमम् ॥ २६ ॥ तत्थ आरेणं जे तसा पाणा ( इत्यादि) जाव अयंपि मेदे से णो० (सू०) ॥ २ ॥२७॥ व्याख्या-अत्र आराद्देशवर्तिनखसा आराद्देशवर्तिषु स्थावरेषु उत्पद्यन्ते ॥२७॥ द्वितीय श्रुतस्कन्धस्य द्वितीयाध्ययने सप्तमो. देशकः। ॥२५॥ ॥ २५॥
SR No.600364
Book TitleSutrakritang Sutra Dipika Pratham Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy