________________
अपरिमाणं० x x x (सू०)॥७॥ व्याख्या-न विद्यते परिमाणमियत्ता क्षेत्रतः कालतो वा यस्य तद्-अपरिमाणं विजानाति कश्चिचीर्षिक: अपरिमित. ज्ञोऽसौ अतीन्द्रियरष्टा न पुनः सर्वज्ञः यद्वाऽपरिमितज्ञोऽभिप्रेतार्थातीन्द्रियदर्शी, न पुनः सर्वदर्शी । यदुक्तम्| "सर्व पश्यतु बा मा वा, इष्टमर्थ तु पश्यतु । कीटसङ्ख्यापरिज्ञानं, तस्य न कोपयुज्यते ॥१" इति।
इह केषां सर्वज्ञापहववादिनामिदमाख्यातं, तथा सर्वत्र क्षेत्रे काले वा 'सपरिमाणं' परिमाणयुक्तं, धी-बुद्धिस्तया राजते इति धीर, इत्येवमसावतीव पश्यति, दिव्यं वर्षसहस्रं ब्रह्मा स्वपिति, तावत्कालं न पश्यति किश्चित् , पुनस्तावन्तं| कालं जागर्ति तत्र पश्यति एवं बहुधा प्रवृत्तो लोकवादः ॥ ७ ॥ अस्योत्तरमाह
जे केइ तसा पाणा० x x x (सू०) ॥८॥ ___ व्याख्या-ये केचित्रमाः प्राणिनस्तिष्ठन्ति, अथवा स्थावराः, तेषां स्वकर्मपरिणत्याऽयं पर्यायोऽस्ति, 'अंजु'तिप्रगुणोऽव्यभिचारी, तेन पर्यायेण ते त्रसस्थावराः स्युः । त्रसत्वमनुभूय कर्मपरिणत्या स्थावराः स्थावरत्वमनुभूप त्रसाथ भवन्तीति, ततो यो यादृगिहमवे स परभवेऽपि तादृगिति नियमो न युक्तः ॥ ८॥ अत्र दृष्टान्तमाह
उरालं जगओ० x x x (सू०) ॥९॥ व्याख्या-'उदारं' स्थूलं जगतो योग, औदारिकाः प्राणिनो गर्मकललार्बुदरूपादवस्थाविशेषाद्विपरीतं बालकुमार-यौर