________________
वाता
NI
दीपिका।
प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने द्वितीयो. द्देशकः ।
१८॥
व्याख्या-'सर्वात्मको ' लोमस्तं व्युत्कर्षों' मानस्तं सर्वां नूमं 'ति मायां तथा 'अप्पत्तियं 'ति क्रोधस्तं च विध्य ' अमांशः' न विद्यते कांशो यस्य सोऽकांशः स्यात् । अकांशत्वं च ज्ञानाद्भवति नाज्ञानादित्याह- एयमटुं 'ति एतमर्थ कर्मामावरूपं मृग व मृगो अज्ञानी 'चुए 'चि त्यजेत् ॥ १२॥ भूयोप्यज्ञानवादिनां दोषमाह
जे एतं नाभि० x x x (सू०)॥१३॥ व्याख्या-य एतं कर्मक्षपणोपायं न जानन्ति मिथ्यादृष्टयोऽनार्यास्ते मृगा इव पाशबद्धा 'घातं' विनाशमेष्यन्ति| यास्यन्ति अन्वेषयन्ति वा, तद्योग्यक्रियाकरणात् 'अनंतशो' निरन्तरम् ।। १३ ॥ अज्ञानवादिनामेव क्षणान्तरमाह
माहणा० x x x (सू०)॥ १४ ॥ व्याख्या-एके ब्राह्मणास्तथा 'श्रमणाः' परिव्राजकाः सर्वे स्वकमात्मीयं ज्ञानं वदन्ति, न च तानि सर्वेषां ज्ञानानि, अन्योन्यविरोधेन प्रवृत्तत्वात् , तस्मादज्ञानमेव श्रेय इत्याह 'सव्वलोयंसि 'त्ति सर्वस्मिल्लोके ये 'प्राणाः' प्राणिनस्ते 'किचन' सम्यग न जानन्ति ॥ १४ ॥ अथ दृष्टान्तमाह
भिलक्खू० x x x (सू०) ॥१५॥ - व्याख्या-यथा म्लेच्छो'ऽनार्यः 'अम्लेच्छस्यार्यस्य' यदुक्तं भाषितं, तदनुमाषते, परमार्थशून्यं तद्भाषितमेवानुमापते, न च हेतुं विजानाति ॥ १५॥ दार्शन्तिके योजयति