SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ २८४ ॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् कृत्वाभ्युपगम्यते धार्मिकस्य । स चेन्नास्ति कस्ताननुसपैत? तेन तीर्थोच्छेदः । अधार्मिकेषु कर्मसु प्रवर्तते नास्त्यधर्म इति कृत्वाऽतो दोषसङ्कटम् । न वक्तव्यं नास्ति धर्म: अधर्मो वा, वक्तव्यं तु 'अत्थि धम्मे अधम्मे वा।' ॥१४॥ (मू०) णत्थि बंधे व मोक्खे वा, णेवं सण्णं निवेसए। अस्थि बंधे व मोक्खे वा, एवं सण्णं निवेसए ॥१५॥(सूत्र ७६९) (चू०)('णत्थि बंधे व०।') धर्माधर्मानन्तरं बन्धमोक्षौ भवतः । अधर्मश्च कारणं बन्धस्य । धर्मस्तु सरागधर्मो वीतरागधर्मश्च । तत्र सरागधर्मः स्वर्गाय, वीतरागधर्मस्तु मोक्षाय । ते तु प्रायेण वितृलिका लोकायताद्या धर्माधर्मों बन्धमोक्षौ च नेच्छन्ति । एकैकत्रानाश्वासः अभ्युपगमनिर्दयदोषाश्च वाच्याः । धर्माधर्मबन्धमोक्षास्तित्ववादास्तु त एव विपरीताः सुगुणा भवंति ॥१५॥ उक्तो बन्धस्तद्विकल्पास्तु पुण्यं पापं च । अतो बन्धमोक्षानन्तरं - (मू०) णत्थि पुण्णे व पावे वा, णेवं सण्णं निवेसए। अत्थि पुण्णे व पावे वा, एवं सण्णं निवेसए ॥१६॥(सूत्र ७७०) ॥ २८४ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy