SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ १५ ॥ फलं मोक्षः । अतो मुमुक्षुणा द्वादश क्रियास्थानानि त्यक्तव्यानि त्रयोदशं क्रियास्थानञ्चासेवनीयमित्युपदिष्टम् । तृतीयमध्ययनमाहारपरिज्ञा अत्र षण्णां जीवनिकायानामाहारप्रकारा वर्णिता: । आहारगुप्तेन सता संयमानुष्ठानेषु प्रयतनीयमित्यन्ते उपदिष्टम् । चतुर्थमध्ययनं प्रत्याख्यानक्रिया अप्रत्याख्यातहिंसादिपापः हिंसादिपापान्यकुर्वाणोऽपि पापकर्माणि बध्नाति । अतो हिंसादिपापानि प्रत्याख्यातव्यानि । इति युक्त्युदाहरणैरत्र प्रतिपादितम् । पञ्चममध्ययनमनाचारश्रुतम् अत्राऽऽचाराननाचारांश्च प्रतिपाद्याऽनाचारत्यागेन तात्त्विकमनगारत्वं भवतीति प्रख्यापितम् । षष्ठमध्ययनमार्द्रकीयम् - अत्राऽऽर्द्रकुमारस्य गोशालक - बौद्धभिक्षु ब्रह्मव्रति- त्रिदण्डि-हस्तितापसैः सह जातो वादो वर्णितः । सप्तममध्ययनं नालन्दीयम् नालन्दासमीपे पार्श्वनाथसन्तानीयोदकमुनेः श्रीगौतमस्वामिना सह जातो वादोऽत्र वर्णितः । पञ्चममध्ययनमनुष्टुब्वृत्तमयम्, षष्ठमध्ययनमुपजातिवृत्तमयम् । शेषाण्यध्ययनानि गद्यमयानि । द्वितीय श्रुतस्कन्धगतान्यध्ययनानि प्रथम श्रुतस्कन्धगताध्ययनापेक्षया महान्तीति तानि महाध्ययनानीत्यप्युच्यन्ते । - - चूर्णिकारेणाऽनेकस्थलेषु विषमपदान्येव व्याख्यातानि । अनेकस्थलेषु तैर्नागार्जुनीयवाचनासत्काः पाठभेदा अपि प्रदर्शिताः । अनेकस्थलेषु तैः शास्त्रपाठान्यप्युल्लिखितानि । वृत्तिदीपिकाभ्यां ज्ञातुमशक्या अनेकपदार्थाचर्ण्या ज्ञायन्ते । चूर्णिकारेणाऽनेकस्थलेषु रहस्यार्था अप्याविर्भाविता: । अनेकस्थलेषु तैः पाणिनीयधातुपाठसत्कसूत्राण्यपि न्यस्तानि । ते शोभना वैयाकरणा अप्यासन् । ।। १५ ।।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy