________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥१३॥
| न प्राप्ता । ततोऽनेकहस्तलिखितप्रतिसाहाय्येन मया श्रीसूत्रकृताङ्गसूत्रद्वितीय श्रुतस्कन्धचूणि: संशोधित । मया स्वक्षयोपशमानुसारेणा
स्याश्चूर्णेः संशोधनार्थं प्रयतितम् । तथाप्यनेकस्थलेषु कदाचित्सम्पूर्णा संशुद्धिर्न जाता स्यात् । तत्र बहुश्रुतैविद्वद्भिरस्याः | संशोधनार्थं प्रयतनीयम् । यत्र यत्र चूर्णिगत: पाठो ममाऽशुद्धोऽभात् शुद्धश्च पाठो मया नोपलब्धस्तत्र तत्र स पाठो मया [] | इति चिह्नमध्ये प्रक्षिप्त: । मया सम्भावितो नूतन: पाठो मया ( ) इति चिह्नमध्ये न्यस्तः ।
अस्याचुणे: संशोधने उपयुक्तानां हस्तलिखितप्रतीनां परिचय एवं ज्ञेयः - (१) A सज्ञकेयं प्रतिः पत्तनस्थश्रीवाडिपार्श्वनाथजैनज्ञानालयसत्का । अस्यां लेखनसंवत्सरो नोपलभ्यते ।
B सझकेयं प्रतिः पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानालयसत्का । अस्यां लेखनसंवत्सरो नोपलभ्यते । C सञकेयं ताडपत्रीया हस्तलिखितप्रतिः राजनगरस्थ-श्रीलालभाइदलपतभाइभारतीयसंस्कृतिविद्यामन्दिरसत्का लिखिता
वि.सं. १४९१ वर्षे ।
D सञकेयं प्रतिः पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानालयसत्का लिखिता वि.सं. १५३८ वर्षे । (५) F सञ्जकेयं प्रतिः पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानालयसत्का लिखिता वि.सं. १४९४ वर्षे । (६) F सञकेयं प्रतिः पूणेस्थभाण्डारकरइन्स्टीट्यूटसत्का । अस्यां लेखनसंवत्सरो नोपलभ्यते । (७) G सञकेयं प्रतिः पूणेस्थभाण्डारकरइन्स्टीट्यूटसत्का । अस्यां लेखनसंवत्सरो नोपलभ्यते ।
SM830
॥१३॥