________________
चतुर्दशपूर्वविच्छीमद्भद्रबाहुस्वामिभि: सूत्रकृताङ्गसूत्रस्य नियुक्तिर्गुम्फिता । प्राकृतभाषानिबद्धायामस्यां नियुक्तौ निक्षेपसारादय: श्रीसूत्रकृताङ्गप्रतिपादिताः । इयं नियुक्तिः पञ्चाधिकद्विशतश्लोकप्रमिता । तत्र प्रथमश्रुतस्कन्धनियुक्तिरेकचत्वारिंशदधिकशतश्लोकप्रमिता चूर्णिः
द्वितीय श्रुतस्कन्धनियुक्तिश्च चतुःषष्टिश्लोकप्रमिता । ॥१२॥
अज्ञातनामधेयैः पूर्वाचायः श्रीसूत्रकृतासूत्रनियुक्त्योः संस्कृतमिश्रितप्राकृतभाषानिबद्धा चूर्व्याख्या प्रथमा व्याख्या प्रणीता। तस्याः परिमाणमेकादशसहस्रानुष्टुब्वृतानि । तस्यां प्रथमश्रुतस्कन्धस्य प्राय: सर्वाणि पदानि व्याख्यातानि । द्वितीयश्रुतस्कन्धस्य चूणिरनेकस्थलेष्वतीव सङ्क्षिप्ता । श्रीसूत्रकृताङ्गसूत्रनियुक्त्योश्चूणिः श्रीजिनदासगणिवयविरचितेति बहुश्रुतकिंवदन्ती ।
श्रीशीलाङ्काचार्यैर्दशमशताब्द्यां श्रीसूत्रकृताङ्गसूत्रनियुक्त्योः संस्कृतभाषानिबद्धा वृत्तिविरचिता । वैक्रमीय १५८३ वर्षे - हेमविमलसूरिशिष्यहर्षकुलगणिभिः श्रीसूत्रकृताङ्गसूत्रस्य दीपिका दृब्धा । वैक्रमीय १५९९ वर्षे उपाध्यायभुवनसोमशिष्योपाध्याय
साधुरङ्गः श्रीसूत्रकृताङ्गसूत्रस्य द्वितीया दीपिका दृब्धा । [ वैक्रमीय १९९८ अब्दे रतलामस्थश्रीऋषभदेवजीकेशरीमलजीश्वेताम्बरसंस्थया आगमोद्धारकश्रीमदानन्दसागरसूरिसम्पादिता
श्रीसूत्रकृताङ्गचूर्णिः प्रकाशिता । तत आगमप्रभाकर-मुनिराजश्री-पुण्यविजयैरनेकहस्तलिखितप्रतिसाहाय्येन सा संशोधिता । तस्याः प्रथमश्रुतस्कन्धपर्यन्तो भागः प्राकृतटेक्स्टसोसायटीसंस्थया वैक्रमीय २०३१ वर्षे प्रकाशितः । श्रीसूत्रकृताङ्गसूत्रद्वितीय श्रुतस्कन्धस्य संशोधिता चूर्णिरद्यावधि अप्रकाशिताऽऽसीत् । मुनिराजश्रीपुण्यविजयसंशोधिता श्रीसूत्रकृताङ्गसूत्रद्वितीय श्रुतस्कन्धचूणिर्मया
॥ १२ ॥