SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ॥ २/१/१/७॥ 18 केवली ब्रूयात् - यत आदानमेतदिति, तथाहि - असंयतो - गृहस्थो भिक्षुप्रतिज्ञया साधुदानार्थं पीठं वा फलकं वा निश्रेणिं वा 18 श्रीआचक उदूखलं वाऽऽहत्य-ऊर्ध्वं व्यवस्थाप्यारोहेत्, स तत्रारोहन् प्रचलेद्वा, प्रपतेद्वा, स तत्र प्रचलन् प्रपतन् वा हस्तादिकं काये इन्द्रियजातं प्रदीपिका ।। लूसेज'त्ति विराधयेत्, तथा प्राणिनो भूतानि जीवान् सत्वानभिहन्याद्, वित्रासयेद्वा लेषयेद्वा - संश्लेषं वा कुर्यात्, तथा सङ्घर्षं वा * कुर्यात्, सङ्घट्ट वा कुर्यात्, एतच्च कुर्वंस्तान् परितापयेद्वा क्लामयेद्वा स्थानात्स्थानं सङ्कामयेद्वा, तदेतज्ज्ञात्वा यदाहारजातं तथाप्रकार मालाहृतं तल्लाभे सति नो प्रतिगृह्णीयादिति। से भिक्खू वा' इत्यादि - स भिक्षुर्यदि पुनरेवम्भूतमाहारं जानीयात्, तद्यथा - कोष्ठिकातः- मृन्मयकुशूलसंस्थानायाः तथा २'कोलेज्जातो वा' अधोवृत्तखाताकाराद् असंयतः भिक्षुप्रतिज्ञया साधुमुद्दिश्य कोष्ठिकातः 'उक्कुज्जियं त्ति ऊर्ध्वकायमुन्नम्य ततः कुब्जीभूय, तथा 'कोलेजाओ अवउजिय'ति अधोऽवनम्य, तथा 'ओहरिय'त्ति तिरश्चीनो भूत्वाऽऽहारमाहृत्य दद्यात्, तच्च भिक्षुस्तथाप्रकारमधोमालाहृतमितिकृत्वा लाभे सति न प्रतिगृह्णीयात् ।। ३७ ।। अधुना पृथिवीकायमधिकृत्याह से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा असणं वा ४ मट्टिओलित्तं । तहप्पगारं असणं वा ४ जाव लाभे संते । L) णो पडिगाहेज्जा। केवली बूया - आयाणमेयं । अस्संजए भिक्खुपडियाए मट्टिओलितं असणं वा उब्भिंदमाणे पुढवीकार्य समारंभेज्जा, ॥५१॥ म
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy