SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 8 ॥श्रीआचाराङ्ग प्रदीपिका॥ अथ ग्रामान्तरगमनविधिसूत्रमाह-'से भिक्खु'त्ति कण्ठ्यम् ॥ १९ ॥ 8 ॥ २/१/१/३॥ साम्प्रतं गमनाभावे निमित्तमाह - से भिक्खू वा २ अह पुण एवं जाणेज्जा, तिव्वदेसियं वा वासं वासमाणं पेहाए, तिव्वदेसियं वा महियं संणिवदमाणिं पेहाए, महावाएण वा रयं समुद्भुतं पेहाए, तिरिच्छं संपातिमा वा तसा पाणा संथडा संणिवतमाणा पेहाए, से एवं णच्चा णो सव्वं भंडगमायाए गाहावतिकुलं पिंडवायपडियाए पविसेज्ज वा णिक्खमेज्ज वा, बहिया विहारभूमिं वा वियारभूमि वा णिक्खमेज्ज वा पविसेज्ज वा, गामाणुगामं वा दूइज्जेज्जा ॥ (सू.२०) स भिक्षुरथ पुनरेवं जानीयात्, तीव्र- बृहद्वारोपेतं देशिकं-बृहत्क्षेत्रव्यापि वर्षं वर्षन्तं प्रेक्ष्य, तथा तीव्रदेशिकां महति देशेऽन्धकारोपेतां १० महिकां वा धूमिकां संनिपतन्तीं प्रेक्ष्य, तथा महावातेन वा समुद्भूतं रजः प्रेक्ष्य तिरश्चीनं संनिपततो - गच्छतः प्राणिनः- पतङ्गादीन् संस्तृतान् - घनान् प्रेक्ष्य स भिक्षुरेवं ज्ञात्वा गृहपतिकुलादौ सर्वोपकरणमादाय न गच्छेन्नापि निष्क्रामेद्वा । सामाचार्येषा यथा गच्छता साधुना गच्छनिर्गतेन तदन्तर्गतेन वोपयोगी दातव्यः, तत्र यदि वर्षमहिकादिकं जानीयात्ततो जिनकल्पिको न गच्छत्येव, यतस्तस्य शक्तिरेषा यथा षण्मासं यावत्पुरीषोत्सर्गनिषे(रो)ध विदध्यात्, इतरस्तु सति कारणे यदि गच्छेत् न सर्वमुपकरणं गृहीत्वा गच्छेदिति ४. तात्पर्यार्थः ।। २०॥ पूर्वं जुगुप्सितेषु प्रवेशनिषेध उक्तः, साम्प्रतमजुगुप्सितेष्वपि केषुचिद्दोषदर्शनात्प्रवेशनिषेधमाह ॥२६॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy