________________
॥२/१/१/१॥
॥ श्रीआचाराङ्ग प्रदीपिका ॥
से भिक्खु वा २ गाहावतिकुलं पिंडवातपडियाए पविसित्तुकामे से ज्जाई पुण कुलाई जाणेज्जा इमेसु खलु कुलेसु णितिए पिंडे दिज्जति, णितिए अग्गपिंडे दिज्जति, णितिए भाए दिज्जति, णितिए अवड्ढभाए दिज्जति, तहप्पगाराई कुलाई णितियाई णितिउमाणाई णो भत्ताए वा पाणाए वा पविसेज्ज वा णिक्खमेज्ज वा। एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वटेहिं समिते सहिते सदा जए त्ति बेमि ॥ (सू.९)
॥श्री पिण्डैषणाध्ययनस्य प्रथमोद्देशकः समाप्तः ।। ___स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकामः यानि पुनरेवम्भूतानि कुलानि जानीयात् [तदा यथा-इमेषु कुलेषु नित्यं-प्रतिदिनं पिण्डः - पोषो दीयते, तथा अग्रपिण्डः - शाल्योदनादेः प्रथममुद्धृत्य भिक्षार्थं व्यवस्थाप्यते सोऽग्रपिण्डो नित्यं भागः- अर्धपोषो दीयते, 'णितिए अवड्ढभाए'त्ति नित्यमपार्धभागः पोषचतुर्थभागः, तथाप्रकाराणि कुलानि नित्यदानयुक्तानि, नित्यदानादेव ‘णितिउमाणाईति नित्यम् 'उमाणं'ति प्रवेशः स्वपरपक्षयोर्येषु तानि तथा, इदमुक्तं भवति- नित्यलाभात्तेषु स्वपक्षः- संयतवर्गः परपक्षः- अपरभिक्षाचरवर्गः सर्वो भिक्षार्थं प्रविशेत्, तानि च बहुभ्यो दातव्यमिति तथाभूतमेव पाकं कुर्युः, तत्र च षट्कायवधः, अल्पे च पाके तदन्तरायः कृतः स्यादतस्तानि नो भक्तार्थं पानार्थं वा प्रविशेन्निष्क्रामेद् वेति।
'एयं खलु'त्ति एतस्य भिक्षोः सामग्यम् समग्रता यद्विचत्वारिंशद्दोषसुपरिशुद्धस्य पिण्डस्योपादानं क्रियते तद् ज्ञानाचारादिसंपन्नता १ नित्यमुपा - बृ०।
-
॥१२॥