SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ॥२/२/६॥ 8 पर-आत्मनो व्यतिरिक्तोऽन्यस्तस्य क्रिया-चेष्टा कायव्यापाररूपा तां परक्रियाम् आध्यात्मिकीम्-आत्मनि क्रियमाणां, सांश्लेषिकी-28 ॥ श्रीआचाराङ्ग मह कर्मसंश्लेषजननीं नो-नैव आस्वादयेत्-अभिलषेत्, मनसा न तत्राभिलाषं कुर्यात्, तथा न तां पक्रियां नियमयेद् वाचा, नापि कायेन। । प्रदीपिका ॥ ह तां च परक्रियां विशेषतो दर्शयति-'से'-तस्य साधो:-निष्प्रतिकर्मशरीरस्य सः परः-अन्यो धर्मश्रद्धया पादौ रजोऽवगुण्ठितौ आमृज्यात् कर्पटादिना, तन्नास्वादयेन्नापि नियमयेत् । ___ एवं साधुस्तं परं पादौ सम्बाधयन्तं, मर्दयन्तं, स्पर्शयन्तं, रञ्जयन्तं, तैलादिना म्रक्षयन्तम्, अभ्यञ्जयन्तं, लोध्रादिनोद्वर्तनादि कुर्वन्तं, शीतोदकादिनोच्छलनादि कुर्वाणं, रम्यतरेण सुगन्धिद्रव्येणालिम्पन्तं, विशिष्टधूपेन' धूपयन्तं, पादात्कण्टकादिकमुद्धरन्तं, शोणितादिकं निस्सारयन्तं नास्वादयेत्-मनसा नाभिलषेत्, नापि नियमयेत् - कारयेद्वाचा कायेन वा। कायामर्जनादिसूत्राणि सुगमानि। कायव्रणगतानि सूत्राणि सुगमानि । ‘से से परोत्ति सुगमानि। एवमुत्तरसप्तककेऽपि तुल्यत्वात् संक्षेपरुचिः सूत्रकारोऽतिदिशति - एवमिति याः पूर्वोक्ताः क्रिया रजःप्रमार्जनादिकास्ताः अन्योऽन्यंपरस्परतः साधुना कृतप्रतिक्रियया न विधेया इत्येवं नेतव्योऽन्योन्यक्रियासप्लैककः ।। १७२ ।। १ अन्यतरेण-बृ। २ धूपनेन-मु। ॥ २२२॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy