________________
॥ २/१/७/२॥
2R स भिक्षुरागन्तागारादाववग्रहे गृहीते ये तत्र गृहपत्यादयस्तेषां सम्बन्धीन्यायतनानि पूर्वप्रतिपादितान्यतिक्रम्यैतानि च वक्ष्यमाणानि AR ॥ श्रीआचाराङ्ग
कर्मोपादानानि परिहत्यावग्रहमवग्रहीतुं जानीयात्, अथ भिक्षुः सप्तभिः प्रतिमाभिरवग्रहविशेषैरवग्रहं गृह्णीयात् - प्रदीपिका । र तत्रेयं प्रथमा प्रतिमा, तद्यथा - स भिक्षुरागन्तागारादौ पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति प्रथमा म
प्रतिमा १।
तथा यस्य भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा - अहं च खल्वन्येषां साधूनां कृतेऽवग्रहं गृहीष्यामि-याचिष्ये, अन्येषां वाऽवग्रहे गृहीते सति उपालयिष्ये - वत्स्यामीति द्वितीया प्रतिमा । इयं च गच्छान्तर्गतानां साम्भोगिकानामसाम्भोगिक़ानां चोद्युक्तविहारिणां, 40 8.8 यतस्तेऽन्योऽन्यार्थं याचन्ते २ । । तृतीया प्रतिमे यम् - अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते तु न स्थास्यामीति, एषा तु यथालन्दिकानां यतस्ते
सूत्रार्थावशेषमाचार्यादभिकाङ्क्षन्त अत आचार्यार्थं याचन्ते ३ । १९ चतुर्थी पुनरहमन्येषां कृतेऽवग्रहं न याचिष्ये अन्यावगृहीते च वत्स्यामि, इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम् ४।
अथापरा पञ्चमी-अहमात्मकृतेऽवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुष्पञ्चानाम्, इयं तु जिनकल्पिकस्य ५। [अथापरा षष्ठी] - यदीयमवग्रहं ग्रहीष्यामि तदीयमेवोत्कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा षण्ण उपविष्टो वा रजनी,
॥१९४ ।।