________________
॥ २/१/५/१॥
प्रदीपिका॥ GR
88 अस्थिरं-जीर्णम् अध्रुवं-स्वल्पकालानुज्ञापनात्, अधारणीयम्-अप्रशस्तप्रदेशखञ्जनादिकलङ्काङ्कितत्वात्, तथा चोक्तम् - ॥ श्रीआचाराङ्ग १"चतारि देविया भागा दोय भागा य माणुसा। आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो॥१॥
२ देवेसु उत्तमो लाभो, माणुसेसु अमज्झिमो । आसुरेसु अ गेलण्णं, मरणं जाण रक्खसे ॥२॥ (बृहत्कल्प भाष्य २८३३/२८३४, निशीथ भाष्य पू ०८८/पू. ८९, प्रव. सारो. ८५२-८५३) तदेवंभूतमप्रायोग्यं रोच्यमानं-दीयमानमपि दात्रा न रोचते, साधवे न कल्पते । स भिक्षुर्यत्पुनरेवंभूतं वस्त्रमनलादिचतुष्पदविशुद्धं जानीयात्, तच्च लाभे सति गृह्णीयात् ।
स भिक्षुः नवम् - अभिनवं वस्त्रं मम नास्तीति कृत्वा ततः बहुदेश्येन-ईषद्बहुना स्नानादिकेन-सुगंधिद्रव्येणाघृष्य प्रघृष्य वा नो 28 शोभनत्वमापादयेत् ।
स भिक्षुः नवं वस्त्रं मम नास्तीति कृत्वा ततस्तस्यैव नो-नैव शीतोदकेन बहुदेश्येन धावनादि कुर्यात्। . स भिक्षुर्यद्यपि मलोपचितत्वाद्दुर्गन्धि वस्त्रं स्यात्तथाऽपि तदपनयनार्थं सुगन्धिद्रव्योदकादिना नो धावनादि कुर्याद् गच्छनिर्गतः,
॥ १७१ ॥
५१ देविएसुत्तमो-बृ । २ चत्वारो दैविका भागा, द्वौ च भागौ च मानुजौ। आसुरौ च द्वौ भागौ, मध्ये वस्त्रस्य राक्षसौ ॥१॥
देवेषूत्तमो लाभो, मानुष्ययोश्च मध्यमः। आसुरयोश्च ग्लानत्वं, मरणं जानीहि राक्षसे ॥ २॥ ३ बहुशो न-पा।