SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ॥श्रीआचाराङ्ग प्रदीपिका ॥ चीनांशुकादीनि नाननादेशेषु प्रसिध्धाभिधानानि तानि च महार्घमूल्यानीति कृत्वा ऐहिकामुष्मिकापायभयाल्लाभे सति प्रतिगृह्णीयात् । स भिक्षुर्यानि पुनरेवंभूतानि अजिननिष्पन्नानि प्रावरणीयानि-वस्त्राणि जानीयात्, तद्यथा-'उदाणि'त्ति उद्रा:-सिन्धुविषये मत्स्याः ,88॥२/१/५/१ ।। तत्सूक्ष्मचर्मनिष्पन्नानि उद्राणि, 'पेसाणि'त्ति सिन्धु विषय एव सूक्ष्मचर्माणः पशवः, तच्चर्म निष्पन्नानि, 'पेसले साणि'त्ति, तच्चर्मसूक्ष्मपक्ष्मनिष्पन्नानि, कृष्णनीलगौरमृगाजिनानि- प्रतीतानि, कनकानि च-इति कनकरसच्छुरितानि, कनकस्येव कान्तिर्येषां तानि कनककान्तीनि' आभरणानि आभरणप्रधानानि, आभरणविचित्राणि- गिरिविडकादिविभूषितानि अन्यानि तथाप्रकाराण्याजिनप्रावरणानि लाभे सति न प्रतिगृह्णीयात् ।। १४५ ।। साम्प्रतं वस्त्रग्रहणाभिग्रहविशेषमाहइच्चेयाई आययणाई उवातिकम्म अह भिक्खू जाणेजा चउहिं पडिमाहिं वत्थं एसित्तए। (१) तत्थ खलु इमा पढमा पडिमा-से भिक्खू वा २ उद्दिसिय २ वत्थं जाएजा, तंजहा-जंगियं वा भंगियं वा साणयं वा 88 : पोत्तगं वा खोमियं वा तूलकडं वा, तहप्पगारं वत्थं सयं वा णं जाएजा परो वा से देजा, फासुयं एसणिजं लाभे संते जाव पडिगाहेजा। ॥१६४॥ ४४१कान्तानि-पा।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy