________________
॥ श्रीभाषाजातं चतुर्थमध्ययनं समाप्तम् ॥ ॥ श्रीआचाराङ्ग स भिक्षुः क्रोधादिकं वान्त्यैवंभूतो भवेत्, तद्यथा-अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी भाषासमित्युपेतो ,
पत8.3॥२/१/५/१॥ प्रदीपिका ॥ म भाषां भाषेत।
एतत्तस्य भिक्षोः सामग्यमिति ॥ १४० ॥ ॥ इति श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकायां द्वितीये श्रुतस्कन्धे प्रथमायां
चूलिकायां चतुर्थं भाषाजाताख्यमध्ययनं समाप्तम् ।
॥अथ पञ्चमं वस्त्रषणाऽध्ययनम् ॥ चतुर्थाध्ययनानन्तरं पञ्चमं समारभ्यते, इहानन्तराध्ययने भाषासमितिः प्रतिपादिता, तदनन्तरमेषणासमितिर्भवतीति सा वस्त्रगता 88 प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्य वस्त्रैषणाध्ययनस्योद्देशार्थादिकारमाह
तत्र प्रथमोद्देशके वस्त्रग्रहणविधिः प्रतिपादितः १ । द्वितीये तु धरणविधिः २। साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् -
॥१६०॥