________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
अथ पुनरेवं जानीयात् 'पारए सिय'त्ति समर्थोऽहमस्मि सोपधिरेवोदकपारगमनाय ततस्तस्मादुदकादुत्तीर्णः सन् संयत एवोदकार्येण गलद्विन्दुना कायेन सस्निग्धेन वोदकतीरे तिष्ठेत्, तत्र चेर्यापथिकीं प्रतिक्रामेत् ।
न चैतत्कुर्यादित्याह - स्पष्टं, नवरमत्रेयं सामाचारी यदुदकार्द्रवस्त्रं तत् स्वत एव निष्प्रगलं यावद्भवति तावदुदकतीर एव स्थेयम्, अथ चौरादिभयाद्गमनं स्यात्ततः प्रलम्बमानं कायेनास्पृशता नेयम् ॥ १२२ ॥
सेभिक्खू वा २ गामाणुगामं दूइज्जमाणे णो परेहिं सद्धिं परिजविय २ गामाणुगामं दूइज्जेज्जा । ततो संजयामेव गामाणुगामं दूइज्जेज्जा ।। (सू. १२३)
सुगमं, नवरं 'परिजविय'त्ति परैः सार्धं भृशमुल्लापं कुर्वन्न गच्छेत् ॥ १२३ ॥
इदानीं जङ्घासन्तरणविधिमाह
भिक्खू वा २ गामाणुगामं दूइज्जेज्जा, अंतरा से जंघासंतारिमे उदगे सिया, से पुव्वामेव ससीसोवरियं कायं पाए य पमज्जेज्जा, से पुव्वामेव ससीसोवरियं कार्य पाए य पमज्जेत्ता एवं पादं जले किच्चा एवं पायं थले किच्चा ततो संजयामेव उदगे अहारियं रीएज्जा ।
सेभिक्खू वा २ उदसि जंघासंतारिमे उदगे अहारियं रीयमाणे णो हत्थेण हत्थं जाव अणासायमाणे ततो संजयामेव उदगंसि जंघासंतारिमे उदगे अहारियं रीएज्जा ।
_ ॥ २/१/३/२ ॥
॥ १३१ ॥