________________
AR जाव विहारवत्तियाए णो पवज्जेज्जा गमणाए। ततो संजयामेव गामाणुगामं दूइज्जेज्जा ॥ (सू.११५) ।। श्रीआचाराङ्ग स भिक्षुर्गामान्तरं गच्छन् यत्पुनरेवं जानीयात्, तद्यथा - अन्तरा ग्रामान्तराले विरूपरूपाणि नानाप्रकाराणि, प्रात्यन्तिकानि, दस्यूनां 88॥२/१/३/१॥ प्रदीपिका ॥ चौराणामायतनानि, 'मिलक्खूणि'त्ति बर्बरशबरपुलिन्द्रादिम्लेच्छप्रधानानि, अनार्याणि अर्धषड्विंशजनपदबाह्यानि, दुःसज्ञाप्यानि दुःखेन
संज्ञाप्यन्ते', तथा दुष्प्रज्ञाप्यानि दुःखेन धर्मसंज्ञोपदेशेनानार्यसंकल्पान्निवर्त्यन्ते, अकालप्रतिबोधीनि न तेषां कश्चिदपर्यटनकालोऽस्ति, अर्धरात्रादावपि मृगयादौ गमनसम्भवात्, तथाऽकालभोजीन्यपीति, सत्यन्यस्मिन् ग्रामादिके विहारे विद्यमानेषु चान्येष्वार्यजनपदेषु न तेषु म्लेच्छस्थानेषु विहरिष्यामीति गमनं [न] प्रतिपद्येत, किमिति ? यतः केवली ब्रूयात् - कर्मोपादानमेतत्, संयमात्मविराधनातः, तत्रात्मविराधने संयमविराधनाऽपि संभवतीत्यात्मविराधनां दर्शयति-ते म्लेच्छा एवमूचुः- अयं स्तेनः- चौरः, अयमुपचरकः- चरोऽयं तस्मादस्मच्छत्रुग्रामादागत इतिकृत्वाऽऽक्रोशयेयुः, तथा दण्डेन ताडयेयुः, यावज्जीविताव्यपरोपयेयुः, तथा वस्त्रादि आच्छिन्द्युः-अपहरेयुः, ततस्तं साधुं निर्धाटयेयुः, अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेषु म्लेच्छस्थानेषु गमनार्थं न प्रतिपद्यन्ते, ततस्तानि परिहरन् संयत एव ग्रामान्तरं गच्छेत् ।। ११५ ॥
से भिक्खू वा २ गामाणुगाम दूइज्जमाणे, अंतरा से अरायाणि वा जुवरायाणि वा दोरज्जाणि वा वेरज्जाणि वा १. विरुद्धरज्जाणि वा, सति लाढे विहाराए संथरमाणेहिं जणवएहिं णो विहारवत्तियाए पवज्जेज्जा गमणाए । केवली बूया - आयाणमेतं । ते णं बाला अयं तेणे तं चेव जाव गमणाए। ततो संजयामेव गामाणुगाम दुइज्जेज्जा। (सू.११६)
4. ॥१२३ ॥ १खेनार्यसंज्ञां ज्ञा - बृ.।