________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
exe
अह पुणेवं जाणेज्जा- पुरिसंतरगडे जाव आसेविए पडिलेहित्ता पमज्जित्ता तओ ठाणं वा ३ चेएज्जा ।
सेभिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा अस्संजते भिक्खुपडियाए पीढं वा फलगं वा णिस्सेणिं वा उदूखलं वा ठाणातो ठाणं साहरति बहिया वा णिण्णक्खु । तहप्पगारे उवस्सए अपुरिसंतरकडे जाव णो ठाणं वा ३ चेतेज्जा ।
अह पुणेवं जाणेज्जा - पुरिसंतरकडे जाव चेतेज्जा ।। (सू. ६५ )
भिक्षु पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा असंयतः - गृहस्थः साधुप्रतिज्ञया लघुद्वारं प्रतिश्रयं महाद्वारं विदध्यात्, तत्रैवम्भूते पुरुषान्तरास्वीकृतादौ न विदध्यात्, पुरुषान्तरस्वीकृतादौ विदध्यादिति, अत्र सूत्रत्रयेऽप्युत्तरगुणा अभिहिताः, एतदोषदुष्टप पुरुषान्तरस्वीकृतादिका कल्पते, मूलगुणदुष्टा तु पुरुषान्तरस्वीकृताऽपि न कल्पते, ते चामी मूलगुणदोषाः
“पट्टी वंसो दो धारणाउ चत्तारि मूलवेलीओ”” [ पञ्चवस्तुक - ७०७, प्रव. सारो. ८७१, यतिदिनचर्या १९१]
एतैः पृष्ठवंशादिभिः साधुप्रतिज्ञया या वसतिः क्रियते सा मूलगुणदृष्टा ।
स भिक्षुर्यं पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा-गृहस्थः साधुप्रतिज्ञया उदकप्रसूतानि कन्दादीनि स्थानात् स्थानान्तरं सङ्क्रामयति, बहिर्वा 'णिण्णक्खु' त्ति निस्सारयति तथाभूते प्रतिश्रये पुरुषान्तरास्वीकृते स्थानादि न कुर्यात्, पुरुषान्तरस्वीकृते कुर्यात् ।
१ पृष्ठिवंशो द्वे धारणे चतम्रो मूलवेल्यः ।
॥२/१/२/१ ॥
112011