________________
आचा०
प्रदी०
वित्तच्छेदं वज्जेतो तेसिमपत्तियं परिहरंतो । मंद परिक्कमे भगवं अहिंसमाणो घासमेसित्था ।। १०५ ॥ 'अदु माहणं ति अथ ब्राह्मणं लाभार्थमुपस्थितं द्रष्ट्वा तया श्रमणं - शाक्याजीवक परिव्राजकतापस निर्ग्रन्थानामन्यतरं ग्रामपिण्डोलकः द्रकः, अतिथिं वा - आगन्तुकम् श्वपाकं - चाण्डालं, मार्जारं, कुर्कुरं श्वानं विविधं स्थितं पुरतोऽग्रतः समुपलभ्य तेषां वृत्तिच्छेदं वर्जयन् मनसो दुष्प्रणिधानं च वर्जयन् मन्दं मनाकु तेषां त्रासमकुर्वन् भगवान पराक्रमते, अपरांश्व कुन्थुकादीन जन्तून हिंसन् ग्रासमन्वेषितवान् ॥ १०४ ॥ १०५॥
अवि सूइयं व सुक्कं वा सोयविंडं पुराणकुम्मासं ।
अदु बक्क पुलागं वा लद्धे पिंडे अलद्धे दबिए ॥ १०६ ॥
'अवि सूइयं 'ति दध्यादिना भक्कमाद्रकृतमपि तथाभूतं शुष्कं वा वल्लचनकादि शीतपिण्डं - पर्युषितभक्तं तथा पुराणकुल्मावा - बहुदिवससिद्धस्थित कुरमापे, 'बक्कस' चिरन्तनधान्यौदनं, पुलाकं - यवनिष्पावादि, तदेवम्भूतं पिण्डमवाप्य रागद्वेषविरहाद् द्रविको भगवान्, [ तथाहि - ] लब्धे पर्याप्ते शोभने वा नोत्कर्षं याति, अलब्धेऽपर्याप्तेऽशोभने वाऽऽत्मानं दातारं वा न जुगुप्सते ॥ १०६ ॥
१. निष्पादितम् - पा०|
११९१४
॥४६३॥