SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ १९१ _ अत्रोपधानश्रुतमिति द्विपद नाम, अत्र भावोपधानं ज्ञानदर्शनाचारित्राणि सबाह्याभ्यन्तरे तपो वा, तेन हि चारित्रपरिणतभावस्योपष्टम्भनं क्रियते, तस्मात् ज्ञानदर्शनतपश्चरणैरिहाधिकारः, द्रव्यभावश्रुताभ्यामप्यधिकारः, उपधानश्रुतयोगादुपधानश्रुताख्यमध्ययनम् , अथोद्देशाधिकारमाह चरिया १ सिज्जा य २ परीसहा य ३ आतंकिते तिगिच्छा ४ य तवचरणेणहिगारो चउसुद्देसेसु नायव्वो ॥ १॥ [आ. नि. गाथा २७९] चरणं चर्या-श्री वर्धमानस्वामिनो विहारः, अयं प्रथमोद्देशकेऽर्थाधिकारः १ । शय्या-वसतिः, सा च यादृग्भगवत आसीत् तादृग्वक्ष्यते, अयं द्वितीयोद्देशकाधिकारः २ । मार्गाच्यवननिर्जरार्य परिषोढव्याः परीषहाः [तत्वार्थ सूत्र १/८] उपसर्गाश्चानुकूला ये भगवतो वर्धमानस्वामिनोऽभूवन् तेऽत्र प्रतिपाद्यन्ते, अयं तृतीयोदेशकाधिकारः ३। आतङ्किते-क्षुत्पीडायामातकोत्पत्तौ विशिष्टाभिग्रहावाप्ताहारेण चिकित्सा, अयं चतुर्थोद्देशकाधिकारः ४ । तपश्चरणाधिकारश्चतुर्वप्युद्देशकेष्वनुयायीति गाथार्थः । साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् M॥४३४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy