________________
१८५
आचा० प्रदी०
HRESEN-CAR२
मनुज्ञातं, साम्प्रतं स एवापरस्य कुर्यादिति दर्शयति–'अहं चावि' अहं च पुनरप्रतिज्ञप्तः-अनभिहितः प्रतिज्ञप्तस्य || वैयावृत्त्यकरणायाभिहितस्य अग्लानो ग्लानस्य निर्जरामभिकाङ्क्षय सार्मिकस्य वैयावृत्त्यं कुर्या, किमर्थ ? करणाय-तदुपकारायेत्यर्थः, तदेवं प्रतिज्ञां परिगृहयापि भक्तपरिज्ञया प्राणान् जहयात् , न पुनः प्रतिज्ञामिति सूत्रभावार्थः।
इदानी प्रतिज्ञाविशेषद्वारेण चतुर्भङ्गिकामाह-'आहटु'त्ति एकः कश्चिदेवम्भूतां प्रतिज्ञां गृह्णाति, ग्लानस्यापरस्य सार्मिकस्याहारादिकमन्विक्षिष्ये अपरश्च वैयावृत्यं यथोचितं करिष्यामि, परेण च साधर्मिकेणाहृतमानीतमाहारादिकं स्वादयिष्यामि-उपभोक्ष्ये, एवम्भूतां प्रतिज्ञामाहृत्य-गृहीत्वा वैयावृत्त्यं कुर्यादिति १। 'आहटु'त्ति तथाऽपरः प्रतिज्ञामाहृत्य गृहीता यथाऽपरनिमित्तमन्त्रीक्षिष्ये आहारादिकमाहृतश्चापरेण न स्वादयिस्यामि २।
तथाऽपर आहृत्य-प्रतिज्ञां गृहीत्वा, यथा-नाऽपरनिमित्तमन्वीक्षिष्ये आहारादिकमाहृतश्चान्येन स्वादयिष्यामि ३। तथाऽपर आहृत्य प्रतिज्ञां, यथा-नान्धीक्षिष्येऽपरनिमित्तमाहारादिकं नाप्याहृतमन्येन स्वादयिष्यामीति ४।। एवम्भूताश्च नानाप्रकारां प्रतिज्ञां गृहीत्वा कुतश्चिद् ग्लायमानोऽपि जीवितपरित्यागं कुर्यात्, न पुनः प्रतिज्ञालोपम् ।
'एवं से'त्ति एवमुक्तविधिना स भिक्षुरवगततत्वः शरीरादिनिष्पिपासो यथा कीर्तितमेव धर्मम् उक्तस्वरूपं समभिजानन्आसेवनापरिज्ञया आसेवमानः, तथा शान्तः कपायोपशमात् , विरत:-सायद्यानुष्ठानात् , शोभना समाहृता-गृहीता लेश्या येन स सुसमाहृतलेश्यः, एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनासमर्थों रोगादिना प्रतिज्ञालोपमकुर्वन् भक्तप्रत्याख्यानं
-
-
॥४०६॥