________________
आचा० प्रदी०
११८५
5015IGEGESSE SISEGIK
एवं से अहाकिट्टितमेव धम्मं समभिजाणमाणे संते विरते सुसमाहितलेस्से । तत्थावि तस्स कालपरियाए । से तत्थ वियंतिकारए। । इच्चेतं विमोहायतणं हितं सुहं खमं णिस्सेसं आणुगामियं ति सेमि (सू. २१४)
॥ विमोक्खस्स पंचमो उद्देसओ समत्तो ॥ 'जस्सणं ति यस्य भिक्षोः परिहारविशुद्धिकस्य वाऽयं-वक्ष्यमाणः प्रकल्प:-आचारो भवति, 'अहं च'त्ति चः-समुच्चये, खलुः-वाक्यालङ्कारे, अहं क्रियमाणं वैयावृत्त्यमपरैः स्वादयिष्यामि-अभिलषिस्यामि, किम्भूतोऽहं ?-प्रतिज्ञतो'-वैयावृत्त्यकरणायापरैरुक्तः अभिहितो यथा तव वैयावृत्यं यथोचितं कुर्मः, किम्भूतैरपरैः ?-अप्रतिज्ञप्तैः-अनुक्तः, किम्भूतोऽहं-ग्लानो विकृष्टतपसा कर्तव्यताऽशक्तो वातादिक्षोभेण वा ग्लानः, किम्भूतैरपरैः ? अग्लानैः-उचितकर्तव्यसहिष्णुभिः, तत्र परिहारविशुद्धिकस्यानुपारिहारिकः करोति कल्पस्थितो वा अपरो, यदि पुनस्तेऽपि ग्लानास्ततोऽन्ये न कुर्वन्ति, एवं यथालन्दिकस्यापि, केवलं [तस्य] स्थविरा अपि कुन्तिीति दर्शयति-'अभिकंख'त्ति निर्जराम् अभिकाझ्य-उद्दिश्य साधर्मिकैः सदृशकल्पिकैरेकसामाचारीस्थैरपरसाधुभिर्वा क्रियमाणं वैयावृत्त्यमहं स्वादयिष्यामि यस्यायं भिक्षोः प्रकल्पः आचारः स तमाचारमनुपालयन् भक्तपरिज्ञयाऽपि जीवितं जथात्, न पुनराचारखण्डनं कुर्यात् । तदेवमन्येन साधर्मिकेण वैयावृत्त्यं क्रियमाण
१ प्रज्ञप्तः-पा० ।
॥४०५॥