SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० ॥ श्रीलोकविजयाध्ययने द्वितीयोदेशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चाऽयमभिसम्बन्धः, इह विषय - कषाय- माता- पित्रादिलोकविजयेन मोक्षावाप्तिहेतुभूतं चारित्रं यथा सम्पूर्णभावमनुभवत्येवंरूपोऽध्ययनार्थाधिकारः प्राङ् निरदेशि, तत्र माता- पित्रादिलोकविजयेन रोग - जराद्यनभिभूत वेतसाऽऽत्मार्थः संयमोऽनुष्ठेय इत्येतत्प्रथमोद्देशक्रेऽभिहितं इहापि तस्मिन्नेव संयमे वर्तमानस्य कदाचिन्मोहनीयोदयादरतिः स्याद्, संयमे न दृढत्वं भवेदित्यतोऽरत्यादिव्युदासेन यथा संयमे दृढत्वं भवति तथाऽनेन प्रतिपाद्यते - अरति आउट्टे से मेधावी, खणंसि मुक्के (सू. ७३) 'अरति आउट्टे से मेहावी 'ति रमणं - रतिस्तदभावोऽरतिस्तां पञ्चविधाऽऽचारविषयां मोहोदयात् कषायाभिष्वङ्गजनितां मातापित्राद्युत्थापितां स इति अरतिमान् मेधावी - विदितासारसं सारस्वभावः सन् आवर्त्तेत- निवर्तयेदित्युक्तं भवति, संयमे चारतिर्न विषयाभिष्वङ्ग[रति]मृते कण्डरिकस्येव, अतो विपयाभिष्वङ्गे रविं निवर्त्तेत, संयमे च रतिं कुब्र्वीत, तद्विहिततेस्तु न किञ्चिद् बाधायै, नापीहापर सुखोत्तर बुद्धिः, आह च १।२।२ ॥१३२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy