SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ लघुवृतेः श्रीउत्तराध्ययनसूत्रस्य प्रस्तावना। ॥४ ॥ वर्षे श्रीपत्तननगरे श्रीखरतरगच्छे श्रीजिनराजसूरयस्तत्पट्टे श्रीजिनवर्धनसूरयस्तेषां पट्टे श्रीजिनचन्द्रसूरयस्तदीयान्वये | श्रीजिनसागरसूरयस्तदन्वये श्रीजिनचन्द्रसूरयस्तत्पट्टपूर्वाचलसहस्रकरावतारश्रीपूज्यराजश्रीजिनहर्षसूरीणामुपदेशेन |श्रीउपकेशवंशे छाझहडगोत्रे सं० खीमाभार्या सं० खेतलदेपुत्र सं० कउझकेन सं० कर्पूरदेपुत्र सं० देवदत्तपौत्र सं० नाकरप्रमुखपरिवारसहितेन श्रीउत्तराध्ययनलघुवृत्तिरलेखि पं० कमलसंयममुनिपठनार्थम् ॥” इति । __ तृतीया च-एकषष्ट्युत्तरद्विशत(२६१)पत्रात्मिका प्राचीनप्राया शुद्धप्राया च, अस्या (१-१७३-१७४-१७५-१७६-1 १७७-१७८) मेतावन्ति पत्राणि न सन्ति । प्रान्ते वृत्तिकर्तुः प्रशस्तिरपि नास्ति, परं पुस्तकलेखकस्य महती पुष्पिका त्वम्-"आसीत् श्रीराजगच्छे सदसि नरपतेरल्हणाख्यस्य साङ्ख्यग्रन्थव्याख्याविधाताऽन्नलनृपतिपुरो वादिगर्वापहर्ता । जैनावज्ञाप्रसक्तं जिनमतसुदृढं विग्रहेशं विधाय, श्रीमजैनेन्द्रधर्मोन्नतिकरणपटुर्धर्मसूरिर्मुनीन्द्रः ॥ १॥ वादीन्द्रः | किल धर्मसूरिरभवच्छ्रीरत्नसिंहाभिधो, देवेन्द्रोऽपि गुरुस्ततोऽप्युदभवद्रत्नप्रभः सूरिराट् । आचार्यों विजयीश्वरः प्रभुरभूद्विद्वज्जने स्वस्थधीः, सूरीशोऽपि च रत्नचन्द्रसुगुरुराणन्दसूरिस्ततः ॥ २ ॥ ततोऽप्यभूवन्नमरप्रमेन्द्रा, वियोधिता यबेहुशो नरेन्द्राः । तेषां क्रमोल्लासनभानुमाली, पुरा भवति स्म ज्ञानेन्दुशाली ॥३॥ श्रीसागरेन्द्रसूरीशाः, सक्रियासु विशारदाः । तत्पट्टभूषणाश्चासन् , सूरयो मलयेन्दवः॥ ४ ॥ सकलवादिमदद्विपकेशरी, स पद्मशेखरसूरिगुरुस्ततः । बहुविनेयवरेष्वपि वाचकः, समभवद्भवि भावशशी मुनिः ॥ ५॥ सुशिष्यो भावचन्द्रस्य, कर्मसागरपाठकः । विश्रुतः शास्त्रनैपुण्यात्कलाकेलिकुतूहली ॥ ६॥ तेषां सुश्रावकाचाथ, भूरयः सूरवंशजाः। सद्गुणाढ्यस्य वंशस्य, प्रपूर्तिर्विस्तरा न किम् ॥७॥ सूराणवंशस्य पटुप्रदीपः, श्रीसूरदेवो भुवि सुप्रतापः। तदन्वयेऽभूद्धरदेवकाख्यः, पुत्रः पवित्रो ननु पद्मसिंहः ॥८॥ मोषाको रत्नसिंहश्च, कमलरूपा तथैव च । मुमिचन्द्रः सोमदेवश्च, पद्मसिंहस्य ॥४॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy