SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया षट्त्रिंशं जीवाजीवविभक्तिनामकमध्ययनम् । संसारिजीववक्तव्यता। सुखबोधाख्या लघुवृत्तिः । ॥३८६॥ त्रीणि त्रीणि योजनशतान्यवगाह्य तावन्त्येव योजनशतानि आयामविस्ताराभ्यां प्रथमेऽन्तरद्वीपाः, ततोऽप्येकैकयोजनशतवृद्धाऽवगाहनया योजनशतचतुष्टयाद्यायामविस्तारा द्वितीयादयः षद्, एषां च पूर्वोत्तरादिक्रमात् प्रादक्षिण्यतः प्रथमस्य | चतुष्कस्य एकोरुक आभाषको लाङ्गुलिको वैाणिक इति नाम । द्वितीयस्य हथकर्णो गजकर्णो गोकर्णः शकुलीकर्णः । तृतीयस्य आदर्शमुखो मेघमुखो यमुखो गर्जेमुखः । चतुर्थस्य अश्वमुखो हेस्तिमुखः सिंहमुखो व्याघ्रमुखः । पञ्चमस्य अश्वकर्णः सिंहकर्णः गजकर्णः कर्णप्रावरणः । षष्ठस्य उल्कामुखो विद्युन्मुखो जिह्वामुखो मेघमुखः। सप्तमस्य घनदन्तो गूढदन्तः श्रेष्ठैदन्तः शुद्धदन्त इति, एतन्नामान एव चैतेषु युगलधार्मिकाः प्रतिवसन्ति, तच्छरीरमानाद्यभिधायि चेदं गाथायुगलम्-"अंतरदीवेसु णरा, धणुसयअटूसिया सया मुइया । पालंति मिहुणभावं, पल्लस्स असंखभागाऊ ॥१॥ चउसट्ठी पिट्ठकरंडयाण मणुयाण तेसिमाहारो। भत्तस्स चउत्थस्स अउणसीइदिणाण पालणया ॥२॥" एते च शिख| रिणोऽपि पूर्वाऽपरप्रान्तविदिप्रसृतकोटिषु उक्तन्यायतोऽष्टाविंशतिः सन्ति । सर्वसाम्याच्चैषां भेदेनाऽविवक्षितत्वान्न सूत्रेऽष्टाविंशतिसङ्ख्याविरोध इति भावनीयम् ।। सम्मूच्छिमानामेष एव भेदो यो गर्भजानां, ते हि तेषामेव वान्तपित्तादिषु सम्भवन्ति ॥ कायस्थितिश्च पल्योपमानि त्रीणि पूर्वकोटिपृथक्त्वेनाऽधिकानीति शेषः ॥ १९५-१९६-१९७-१९८-१९९-| २००-२०१-२०२-२०३ ॥ देवाधिकारःदेवा चउबिहा वुत्ता, ते मे कित्तयओ सुण । भोमिज वाणमंतर, जोइस वेमाणिया तहा ॥२०४॥ दसहा भवणवासी, अट्टहा वणचारिणो। पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥२०५॥ . "अन्त:पेषु नरा धनुःशताष्टोच्छ्रिताः सदा मुदिताः । पालयन्ति मिथुनभावं, पल्यस्थासङ्ख्यभागायुषः ॥ १॥ चतुःषष्टिः पृष्ठकरण्डकानां मनुजानां तेषामाहारः । भक्तेन चतुर्थेन एकोनाशीतिदिनानि पालनता ॥२॥" ॥३८६॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy