________________
सिद्धजीववक्तव्यता।
___ व्याख्या-तत्र सिद्धा महाभागा लोकाग्रे प्रतिष्ठिताः' सदाऽवस्थिताः, एतच्च कुतः ? इत्याह-भवप्रपञ्चोन्मुक्ताः सन्तः सिद्धिं वरगतिं गताः ॥ ६३ ॥ तदवगाहनामाहउस्सेहो जस्स जो होइ, भवम्मि चरिमम्मिय।तिभागहीणा तत्तोय, सिद्धाणोगाहणा भवे॥१४॥
व्याख्या-स्पष्टम् ।। ६४ ॥ एतानेव कालतः प्ररूपयितुमाहएगत्तेण साईया, अपज्जवसिया वि य । पुहुत्तेण अणाईया, अपज्जवसिया वि य ॥६५॥ ___ व्याख्या-स्पष्टम् । नवरम्-'पृथक्त्वेन' बहुत्वेन सामस्त्येनेत्यर्थः ।। ६५ ।। एषामेव स्वरूपमाहअरूविणो जीवघणा, णाणदंसणसण्णिया। अउलं सुहं संपत्ता, उवमा जस्स णत्थि उ॥६६॥
व्याख्या-स्पष्टम् । जवरम्-जीवाश्च ते घनाश्च-शुषिरपूरणतो निचिता जीवघनाः, ज्ञानदर्शने एव सज्ञा सा सञ्जाता येषां ते ज्ञानदर्शनसज्ञिताः, "सुह" ति सुखम् ॥ ६६ ॥ उक्तग्रन्थेन गतमपि विप्रतिपत्तिनिराकरणाथं पुनः क्षेत्रस्वरूपं च तेषामाहलोएगदेसे ते सव्वे, णाणदंसणसन्निया । संसारपारनित्थिन्ना, सिद्धिं वरगई गया ॥७॥
व्याख्या-स्पष्टम् । नवरम्-लोकैकदेशे ते सर्वे इत्यनेन सर्वत्र मुक्तास्तिष्ठन्तीति मतमपास्तम् । ज्ञानदर्शनसज्ञिता इत्यनेन केषाश्चिन्मा भूत् ज्ञानसञ्जाऽपरेषां दर्शनस व केवला, किन्तूभे अपि सर्वेषामिति । संसारपारं 'निस्तीर्णाः' अतिक्रान्ताः, अनेन तु—"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । मत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥" इति मतं निराकृतम् । सिद्धिं वरगतिं गताः, अनेन तु क्षीणकर्मणोऽपि लोकाग्रगमनात् स्वभावेनैवोत्पत्तिसमये सक्रियत्वमप्यस्ति इति ख्याप्यते । वाचनान्तरे तु इदं सूत्रं नास्त्येव ॥ ६७ ॥ इत्थं सिद्धानभिधाय संसारिण आह
FoXXXXXXXXXXX