________________
अथ जीवाजीवविभक्तिनामकं षट्त्रिंशमध्ययनम् ।
लोकालोक
विभागः, अनन्तराऽध्ययनेऽहिंसादयो भिक्षुगुणा उक्ताः, ते च जीवाऽजीवखरूपपरिज्ञानत एवाऽऽसेवितुं शक्यन्ते इति तज्ज्ञा
अजीवप्ररूपपनार्थमधुना षट्त्रिंशं जीवाऽजीवविभक्तिसंज्ञमध्ययनमारभ्यते, तस्येदमादिसूत्रम्
प्राणायां द्रव्यजीवाजीवविभत्तिं, सुणेह मे एगमणा इओ। जं जाणिऊण भिक्खू, सम्मं जयइ संजमे ॥१॥
तोऽरूप्यव्याख्या-जीवाऽजीवानां विभक्तिः-तत्तद्भेदादिदर्शनतो विभागेनाऽवस्थापनं जीवाऽजीवविभक्तिस्तां शृणुत 'मे'
जीवकथयत इति गम्यते, एकमनसः सन्तः 'इतः' अनन्तराध्ययनानन्तरं शेष स्पष्टमिति सूत्रार्थः ॥ १॥ जीवाऽजीव
| वक्तव्यता। विभक्तिप्रसङ्गत एव लोकालोकविभक्तिमाहजीवा चेव अजीवा य, एस लोए वियाहिए। अजीवदेसमागासे, अलोए से वियाहिए ॥२॥ व्याख्या-पष्टम् ॥२॥ इह च जीवाऽजीवानां विभक्तिः प्ररूपणाद्वारेणैवेति तां विधित्सुर्यथाऽसौ भवति तथाऽऽहदवओ खित्तओ चेव, कालओ भावओ तहा । परूवणा तेसि भवे, जीवाणमजीवाण य ॥३॥
व्याख्या-'द्रव्यतः' इदमियद्भेदं द्रव्यमिति, 'क्षेत्रतश्चैव' इदमियति क्षेत्रे इति, 'कालतः' इदमियस्थितिकमिति, 'भावतस्तथा' इमेऽस्य पर्याया इति प्ररूपणा तेषां विभजनीयत्वेन प्रक्रान्तानां भवेद् जीवानामजीवानां चेति सूत्रार्थः ॥ ३ ॥ तत्राऽल्पवक्तव्यत्वाद् द्रव्यतोऽजीवप्ररूपणामाहरूविणो चेवरूवी य, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणो विचउबिहा ॥४॥ धम्मत्थिकाए तद्देसे, तप्पएसे य आहिए । अधम्मे तस्स देसे य, तप्पएसे य आहिए ॥५॥
XOXOXOXOXOXXX