SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ CXCXCXXXCXX CXCXCXCXX संखभागं च" त्ति सूत्रत्वात् पल्योपमासयेय भागश्चोत्कृष्टा । इयं च जघन्या रत्नप्रभायाम्, उत्कृष्टा वालुकायाम् । लेश्यानां | नीलाया जघन्या वालुकायाम् ; उत्कृष्टा धूमप्रभायाम् कृष्णाया जघन्या धूमप्रभायाम्, इतरा तु महातमः प्रभायाम् ; स्थिति| शेषं नारकसूत्रेषु त्रिषु स्पष्टम् || "एसा " सूत्रं स्पष्टम् ॥ तिर्यङ्मनुष्यसूत्रे “अंतोमुहुत्तमर्द्ध” ति 'अन्तर्मुहूर्त्तार्द्धम्' अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिर्जघन्या उत्कृष्टा चेति शेषः, कतरासाम् ? इत्याह- ' यस्मिन् यस्मिन्' इति पृथिवीकायादौ सम्मूच्छिममनुष्यादौ च ' या ' कृष्णाद्याः, 'तुः' पूरणे तिरश्चां मनुष्याणां च मध्ये सम्भवन्ति तासां वर्जयित्वा 'केवलां' शुद्धां लेश्यां शुकुलेश्या मित्यर्थः ॥ अस्या एव स्थितिमाह – ' मुहूर्त्तमित्यादि स्पष्टम्, नवरम् - इह यद्यपि कश्चिद् अष्टवार्षिकोऽपि पूर्व कोट्यायुर्व्रत परिणाममवाप्नोति तथाऽपि नैतावद्वयः स्थस्य वर्षपर्यायादवकू शुकुलेश्यायाः सम्भव इति नवभिर्वर्षैरुना पूर्वकोटिरुच्यते ॥ " एसा " सूत्रं स्पष्टमेव ॥ प्रतिज्ञातमाह – 'दसे' त्यादि सूत्रत्रयं स्पष्टम् । नवरम् - " पलियमसंखेज्ज - इमो” त्ति पल्योपमासयेयतमः प्रस्तावाद् भागः, इयं च द्विधाऽपि कृष्णायाः स्थितिरेतावदायुषामेव भवनपति - व्यन्तराणां द्रष्टव्या ॥ नीलासूत्रे "पलियमसंखं च " त्ति सूचनात् सूत्रमिति पल्योपमास येयभागः, बृहत्तरश्चायं भागः पूर्वस्मादवसेयः । कापोताया अपि स्थितिर्जघन्येतरा च भवनपति - व्यन्तराणामेव ज्ञातव्या । बृहत्तमश्चाऽत्राऽसङ्ख्यातभागो गृह्यते ॥ इत्थं निकायद्वयभाविनी माद्यलेश्यात्रयस्थितिमुपदर्य समस्तनिकायभाविनीं तेजोलेश्यास्थितिमभिधातुं प्रतिज्ञासूत्रमाह - " तेण" त्ति ततः परं प्रवक्ष्यामि तेजोलेश्यां 'यथे 'ति येनाऽवस्थानप्रकारेण सुरगणानां भवति, 'तथे' त्युपस्कारः, भवनपति - व्यन्तर- ज्योति - वैमानिकानां, 'चः' पूरणे ॥ प्रतिज्ञातमाह – “पलिए" त्यादि सूत्रचतुष्टयं स्पष्टम् । नवरम् - प्रथमसूत्रे वैमानिकानेवाश्रित्य तैजस्याः स्थितिरुक्ता । तत्र च जघन्या सौधर्मे उत्कृष्टा चेशाने ॥ द्वितीयसूत्रे तु निकायभेदमाश्रित्य सैवोक्ता । इह च दशवर्षसहस्राणि जघन्या तैजस्याः स्थितिरुक्ता, प्रक्रमाऽऽनुरूप्येण तु योत्कृष्टा द्वारम् ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy