________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
8XOXE
॥३७०॥
लोच्य प्रवर्त्तते साहसिकः चौर्यादिकृदित्यर्थः, नर उपलक्षणत्वात् ख्यादिर्वा ॥ "निद्धंधस" त्ति ऐहिकामुष्मिकापाय- चतुस्त्रिंश शङ्काविकलः परिणामो यस्य सः, तथा "निस्संसो" ति 'नृशंसः' निस्तृशो जीवान् विहिंसन् न मनागपि शङ्कते, अजि- लेश्याख्यतेन्द्रियः, एते च ते योगाश्च-व्यापारा एतद्योगास्तैः समायुक्त:-अन्वित एतद्योगसमायुक्तः कृष्णलेश्यामेव तुशब्दस्या- मध्ययनम् । |ऽवधारणार्थत्वात् परिणमेत् ॥ ईर्ष्या च-परगुणासहनम् अमर्षश्च-अत्यन्ताभिनिवेशः अतपश्च-तपोविपर्ययोऽमीषां समाहारः, 'अविद्या' कुशास्त्ररूपा, 'माया' प्रतीता, 'अहीकता च' असमाचारविषया निर्लज्जता, 'गृद्धिः' विषयेषु लाम्पट्यं,
लेश्यानां
लक्षण'प्रद्वेषश्च' अभेदोपचाराच्चेह सर्वत्र तद्वान् जन्तुरेवोच्यते, अत एव 'शठः' अलीकभाषणात् , 'प्रमत्तः' प्रकर्षेण जातिमदा-%
द्वारम्। सेवनात्, 'रसलोलुपः' सातगवेषकश्च ॥ 'आरम्भात्' प्राण्युपमर्दाद् अविरतः शेषं प्राग्वत् ॥ वक्रः वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथञ्चिद् ऋजूकर्तुमशक्यतया, “पलिउंचग" त्ति प्रतिकुञ्चकः
स्वदोषप्रच्छादकतया, उपधिः-छद्म तेन चरति औपधिकः सर्वत्र व्याजतः प्रवृत्तेः, एकार्थिकानि चैतानि, मिथ्यादृष्टिः | * अनार्यः ॥ "उप्फालग" त्ति उत्प्रासकं यथा पर उत्प्रास्यते दुष्टं च रागादिदोषवद् यथा भवत्येवं वदनशील उत्प्रासक
दुष्टवादी, 'चः' समुच्चये, 'स्तेनः' चौरः, 'चः' समुच्चये, 'अपि च' इति पूरणे, मत्सरः-परसम्पदसहनं तद्वान् मत्सरी, शेष प्राग्वत् ॥ "नीयावित्ति" ति 'नीचैर्वृत्तिः' कायमनोवाग्भिरनुत्सिक्तः, योगः-स्वाध्यायादिव्यापारस्तद्वान् 'उपधानवान्' विहितशास्त्रोपचारः, शेषं स्पष्टम् ॥ प्रतनुक्रोधमानः, 'चः' पूरणे, माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तचित्तो दान्तात्मा ॥ 'उपशान्तः' अनुद्भूटतयोपशान्ताकृतिः, शेषं स्पष्टम् ॥ आतरौद्रे वर्जयित्वा धर्मशुक्ले साधयेत् ॥३७०॥ यः स प्रशान्तचित्त इत्यादि, शेषं स्पष्टम् इति सूत्रद्वादशकार्थः ॥२१-२२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२॥ सम्प्रति स्थानद्वारमाह