________________
कर्मणामुत्तरप्रकृतयः ।
सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य। एयाओ तिन्नि पयडीओ, मोहणिज्जस्स दंसणे ॥९॥ चरित्तमोहणं कम्म, दुविहं तु वियाहियं । कसायमोहणिज्जं च, नोकसायं तहेव य॥१०॥ सोलसविहभेदेणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं च नोकसायजं ॥११॥ नेरइयतिरिक्खाऊ, माणुस्साउं तहेव य । देवाउयं चउत्थं तु, आउकम्मं चउविहं ॥१२॥ नामं कम्मं तु दुविहं, सुहमसुहं च आहियं । सुहस्स उ बहू भेया, एमेव य असुहस्स वि॥ १३ ॥ गोत्तं कम्मं तु दुविहं, उच्चं नीयं च आहियं । उच्चं अट्टविहं होइ, एवं नीयं पि आहियं ॥१४॥ दाणे लाभे य भोगे य, उवभोगे वीरिए तहा। पंचविहमंतरायं, समासेण वियाहियं ॥१५॥
व्याख्या-सुगमान्येव । नवरम्-ज्ञानावरणं पञ्चविधम् , तच्च कथं पञ्चविधम् ? इत्याशङ्कायाम् आवार्यभेदादेव इहावरणस्य भेद इत्यभिप्रायेणाऽऽवार्यस्यैव भेदानाह-'श्रुतमित्यादि । “सायस्स उ बहू भेय" त्ति सातस्य तु बहवो भेदाः तद्धेतुभूतभूतानुकम्पादीनां बहुभेदत्वात् । एवमेवाऽसातस्यापि दुःखशोकादितद्धेतुबहुविधत्वादेव ॥ "सत्तविह नवविहं व” त्ति बिन्दुलोपात् सप्तविधं नवविधं वा कर्म नोकषायज, तत्र सप्तविधं हास्यादिषटुं वेदश्च सामान्यविवक्षयैक एवेति, नवविधं तु तदेव षटुं वेदत्रयसहितम् ॥ "उच्च अट्ठविहं होइ" त्ति इत्यत्राऽष्टविधत्वं बन्धहेत्वष्टविधत्वात् , अष्टौ हि जात्यमदादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचैर्गोत्रस्येति सूत्रद्वादशकार्थः ॥ ४-५-६-७-८-९१०-११-१२-१३-१४-१५ ॥ इत्थं प्रकृतयोऽभिहिताः । सम्प्रत्येतन्निगमनायोत्तरग्रन्थसम्बन्धनायाहएयाओ मूलपयडीओ, उत्तराओ य आहिया।पएसग्गं खित्तकाले य, भावं चादुत्तरंसुण ॥१६॥
व्याख्या-एता मूलप्रकृतयः 'उत्तराश्च' उत्तरप्रकृतय आख्याताः, प्रदेशाः-परमाणवस्तेषामग्र-परिमाणं प्रदेशाग्रं,