________________
प्रमादस्य स्थानानि ।
तेषां न कश्चिद् रागद्वेषवान् भवेत् , न चाऽपि 'भोगाः' शब्दादयः 'विकृति' क्रोधादिरूपाम्, इहाऽपि हेतुत्वेनोपयान्ति, अन्यथा न कश्चन रागद्वेषरहितः स्यात् , कोऽनयोस्तर्हि हेतुः ? इत्याह-यः तत्प्रद्वेषी च 'परिग्रही च' परिग्रहबुद्धिमान तेष्वेव रागीत्यर्थः, स तेषु 'मोहात्' मोहनीयाद् विकृतिमुपैति, रागद्वेषरहितस्तु समतामित्यर्थादुक्तं भवतीति सूत्रार्थः॥१०॥ किंस्वरूपा पुनरसौ विकृतिः यां रागद्वेषवशादुपैति ? इत्याह
कोहं च माणं च तहेव मायं, लोभं दुगुंछ अरइं रहं च । हासं भयं सोगपुमिथिवेयं, नपुंसवेयं विविहे य भावे ॥ १०२॥ आवजई एवमणेगरूवे, एवं विहे कामगुणेसु सत्तो।
अन्ने य एयप्पभवे विसेसे, कारुण्णदीणे हिरिमे वइस्से ॥१३॥ व्याख्या-क्रोधं च मानं च तथैव मायां लोभं च जुगुप्साम् अरतिं रतिं च हासं भयं शोकपुंस्त्रीवेदमिति समाहारनिर्देशः, तत्र 'पुंवेदं योषिभिलाषं 'स्त्रीवेदं पुरुषाऽभिष्वङ्गं 'नपुंसकवेदम्' उभयाऽभिलाषं, विविधांश्च 'भावान्' हर्षविषादादीन आपद्यते 'एवम्' अमुना रागद्वेषवत्तालक्षणेन प्रकारेण 'अनेकरूपान्' बहुभेदान् 'अनन्तानुबन्ध्यादिभेदेन - तारतम्यभेदेन च 'एवंविधान्' उक्तप्रकारान् विकारानिति गम्यते, कामगुणेषु सक्त अन्यांश्च 'एतत्प्रभवान्' क्रोधादिजनितान् 'विशेषान्' परितापदुर्गतिपातादीन, कीदृशः सन् ? इत्याह-कारुण्यास्पदीभूतो दीनः कारुण्यदीनः मध्यपद| लोपी समासः अत्यन्तदीन इत्यर्थः, "हिरिमे" त्ति 'ह्रीमान्' लज्जावान, कोपाद्यापन्नो हि प्रीतिविनाशादिकमिहैवाऽनुभवन् |परत्र च तद्विपाकमतिकटुकं परिभावयन् प्रायोऽतिदैन्यं लज्जां च भजते, तथा "वइस्स" त्ति आर्षत्वात् 'द्वेष्यः'