________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः।।
द्वात्रिंश प्रमादस्थानाख्यमध्ययनम् ।
प्रमादस्य स्थानानि ।
॥३६२॥
गए व" त्ति करेण्या मार्गेण-निजपथेन अपहृतः-आकृष्टः करेणुमार्गापहृतः 'गज इव' हस्तीव, स हि मदान्धोऽप्यदूरवर्तिनी करिणीमुपदर्य तद्रूपादिमोहितः तन्मार्गानुगामितया गृह्यते, ततः सङ्ग्रामादिषु विनाशमाप्नोति । आह एवं चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्य दृष्टान्तत्वेनाऽभिधानम् ? उच्यते-एवमेतत् , मनःप्राधान्यविवक्षया तु एतन्नेयम् इत्यष्टसप्ततिसूत्रार्थः ।। २२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२-३३-३४-३५-३६-३७-३८-३९४०-४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१-५२-५३-५४-५५-५६-५७-५८-५९-६०-६१-६२-६३-६४६५-६६-६७-६८-६९-७०-७१-७२-७३-७४-७५-७६-७७-७८-७९-८०-८१-८२-८३-८४-८५-८६-८७-८८-८९९०-९१-९२-९३-९४-९५-९६-९७-९८-९९ ॥ उक्तमेवार्थ सङ्केपत उपसंहारव्याजेनाऽऽह
एविंदियत्था य मणस्स अत्था, दुक्खस्स हेडं मणुयस्स रागिणो।
ते चेव थेवं पि कयाइ दुक्खं, न वीयरागस्स करिति किंचि ॥१०॥ व्याख्या-'एवम्' उक्तन्यायेन इन्द्रियार्थाः, चस्य भिन्नक्रमत्वाद् मनसोऽर्थाश्च उपलक्षणत्वाद् इन्द्रियमनांसि च दुःखस्य हेतवो मनुजस्य रागिणः, उपलक्षणत्वाद् द्वेषिणश्च । ते चैव स्तोकमपि कदाचिद् दुःखं न 'वीतरागस्ये'ति विगतरागद्वेषस्य कुर्वन्ति 'किञ्चिदिति शारीरं मानसं चेति सूत्रार्थः ॥ १०॥ ननु न कश्चन कामभोगेषु सत्सु वीतरागः सम्भवति, तत्कथमस्य दुःखाभावः ? उच्यते
न कामभोगा समयं उति, न यावि भोगा विगई उति ।
जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगइं उवेइ ॥१०१॥ व्याख्या-न कामभोगाः 'समतां' रागद्वेषाऽभावरूपाम् 'उपयान्ति' उपगच्छन्ति हेतुत्वेनेति गम्यते, तद्धेतुत्वे हि
॥३६२॥