________________
उक्तं च-*"अप्पाहार अवड्डा भाग पैत्ता तहेव किंणा । अट्ठ दुवालस सोलस, चवीस तहेकतीसा य ॥१॥"IT बाह्यतपसः क्षेत्रावमौदर्यमाह-प्रामे नगरे, तथा राजधानी च निगमश्च-प्रभूततरवणिजां निवासो राजधा नीनिगमं तस्मिन् , आकरे स्वरूपम् । पल्या खेटे पांशुप्राकारप्रतिक्षिप्ते, कर्बर्ट-कर्बटजनावासः, द्रोणमुखं-जलस्थलनिर्गम-प्रवेशं यथा ताम्रलिप्तिः, पत्तनंजलपत्रमं स्थलपत्तनं च, तत्राद्यं जलमध्यवर्ति, इतरनिर्जलभूभागभावि, मुडम्बम्-अविद्य मानार्द्धतृतीययोजनान्तर्यामं, सम्बाधं-प्रभूतचातुर्वर्ण्यनिवासः, कर्बटादीनां समाहारद्वन्दूस्तस्मिन् ॥'आश्रमपदे' तापसावसथाद्युपलक्षितस्थाने, विहारःदेवगृहं भिक्षुनिवासो वा तत्प्रधानो प्रामादिरपि विहारस्तस्मिन् , 'सन्निवेशे' यात्रादिसमायातजनावासे, समाजः-पथिकसमूहः घोष-गोकुलम् अनयोः समाहारस्तस्मिन् , 'चः' समुच्चये, स्थल्याम-उच्चभूभागे सेना- चतुरङ्गबलसमूहः स्कन्धा
वारः स एवाऽशेषखेडाद्युपलक्षितः अनयोः समाहारस्तस्मिन्, 'साथै प्रतीते, संवतः-भय त्रस्तजनस्थपणिः कोढें-IA दाप्राकारोऽनयोः समाहारस्तस्मिन् , 'च: समुच्चये, क्षेत्रप्रस्तावाच्चेह समाजादिषु क्षेत्रमेवोपलक्ष्यते ॥ 'वाटेषु पाटेषु वा'IX
वृत्यादिपरिक्षिप्तगृहसमूहात्मकेषु, 'रध्यासु' सेरिकासु, गृहेषु वा, 'एवमिति अनेन हृदयस्थप्रकारेण "एत्तियं" ति एतावद् |विवक्षातो नियतपरिमाणं क्षेत्रं कल्पते पर्यटितुमिति शेषः, 'तुः' पूरणे, एवमादि, आदिशब्दाद् गृहशालादिपरिग्रहः, | "एवम्' अमुना प्रकारेण 'क्षेत्रेणे'ति क्षेत्रहेतुकं 'तुः' पूरणे भवेद् अवमौदर्यमिति प्रक्रमः ॥ पुनरन्यथा क्षेत्रावमौदर्यमाह-"पेडे"त्यादि, अत्र च सम्प्रदायः-पेडा पेडिका इव चउकोणा, अद्धपेडा इमीए चेव अद्धसंठिया घरपरिवाडी, गोमुत्तिया वंकावलिया, पयंगविही अणियया पयंगुड्डाणसरिसा, “संबुक्कावट्ट" त्ति शम्बूक:- शङ्खस्तद्वदावों यस्यां सा
*"अल्पाहाराऽपार्धा द्विभागा प्राप्ता तथैव किञ्चिदूना । अष्ट द्वादश षोडश चतुर्विशतिस्तथैकत्रिंशश्च ॥१॥" , "पेटा" पेटि का इव | चतुष्कोणा, अर्धपेटा' अस्याश्चैव अर्धसंस्थिता गृहपरिपाटी, गोमूत्रिका' वक्रावलिका, 'पतङ्गवीथिका' अनियता पतङ्गोड्यनसशा।