________________
अथ एकोनांत्रशं सम्यक्त्वपराक्रमाख्यमध्ययनम् ।
एकोनत्रिंश सम्यक्त्वपराक्रमाख्यमध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३२४॥
सम्यक्त्व
पराक्रमा
ध्ययनस्य फलम् ।
अनन्तराऽध्ययने मोक्षमार्गगतिरुक्ता, सा च वीतरागत्वपूर्विकेति यथा तद्भवति तथाऽधुनाऽभिधीयत इति सम्बद्धस्यैकोनत्रिंशाध्ययनस्य सम्यक्त्वपराक्रमाख्यस्याऽऽदिसूत्रम्
सुयं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु सम्मत्तपरक्कमे नामज्झयणे समणेणं भगवया महावीरेणं कासवेणं पवेइए, जं सम्मं सद्दहइत्ता पत्तियाइत्ता रोयइत्ता फासइत्ता पालइत्ता तीरइत्ता किदृइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता बहवे जीवा सिझंति बुज्झंति मुचंति परिनिघायंति सचदुक्खाणमंतं करेंति ॥१॥ व्याख्या-श्रुतं 'मे' मया 'आयुष्मन् !' इति शिष्यामश्रणम् , एतच्च सुधर्मस्वामी जम्बूस्वामिनमाह । 'तेने'ति यः सर्वजगत्प्रतीतः, 'भगवता' प्रक्रमात् महावीरेण 'एवमिति वक्ष्यमाणप्रकारेणाऽऽख्यातम् । तमेव प्रकारमाह-'इह' अस्मिन् प्रवचने 'खलु' निश्चितं सम्यक्त्वे सति पराक्रमः-उत्तरोत्तरगुणप्रतिपत्त्या कर्मारिजयसामथ्येलक्षणोऽर्थात् जीवस्य वयेतेऽस्मिन्निति सम्यक्त्वपराक्रम नामाध्ययनमस्तीति गम्यते, तच्च केन प्रणीतम् ? इत्याह-श्रमणेन भगवता महावीरण काश्यपेन प्रवेदितम् , स्वतः प्रविदितमेव भगवता ममेदमाख्यातं इत्युक्तं भवति । अस्यैव फलमाह-'यदिति प्रस्तुताऽध्ययनं सम्यक् 'श्रद्धाय' शब्दार्थोभयरूपं सामान्येन प्रतिपद्य 'प्रतीत्य विशेषत इत्थमेवेति निश्चित्य 'रोचयित्वा' तध्ययनादिविषयमभिलाषमात्मन उत्पाद्य, स्पृष्ट्वा' योगत्रिकेण, तत्र मनसा सूत्रार्थयोश्चिन्तनेन, वचसा वाचनादिना, कायेन भङ्गकरचनादिना, 'पालयित्वा' परावर्तनादिनाऽमिरक्ष्य 'तीरयित्वा' अध्ययनादिना परिसमाप्य 'कीर्तयित्वा' गुरोविनय
॥३२४॥