SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ पञ्चविंशं श्रीउत्तराध्ययनसूत्रे श्रीनेमिच यज्ञी न्द्रीया याख्यमध्ययनम्। सुखबोधाख्या लघुवृत्तिः । विजयघोषचरित्रम् । ॥३०७॥ प्रवर्त्तन्ते । नक्षत्राणां 'मुखं' प्रधानं चन्द्रः । धर्माणां 'काश्यपः' भगवान् ऋषभदेवः 'मुखम्' उपायः, तस्यैवाऽऽदितस्तत्प्ररूपकत्वात् ॥ काश्यपस्यैव माहात्म्यख्यापनतो धर्ममुखत्वं समर्थयितुमाह-यथा चन्द्र ग्रहादिकाः “पंजलीयड" त्ति कृतप्राञ्जलयः 'वन्दमानाः' स्तुवन्तः 'नमस्यन्तः' नमस्कुर्वन्तः 'उत्तम प्रधानं "मणोहारिणो" त्ति विनीततया चित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैनमपि भगवन्तं देवेन्द्रप्रमुखा इत्युपस्कारः, अनेन प्रश्नचतुष्टयप्रतिवचनमुक्तम् ॥ पञ्चमप्रश्नमधिकृत्याऽऽह-"अजाणग" त्ति अज्ञाः, के ते? यज्ञवादिनो ये भवतः पात्रत्वेनाऽभिमताः, कासाम् ? इत्याह"विजामाहणसंपय" त्ति सुव्यत्ययाद् 'विद्याब्राह्मणसंपदां' विद्याश्च-आरण्यक-ब्रह्माण्डपुराणाख्यधर्मशास्त्रात्मिकाः ता एव ब्राह्मणसम्पदो विद्याब्राह्मणसम्पदः, तात्त्विकब्राह्मणानां हि नि:किञ्चनत्वेन विद्या एव सम्पदः। तथा 'गूढाः' बहिःसंवृतिमन्तः, केन हेतुना ? 'स्वाध्यायतपसा' वेदाध्ययनोपवासादिना, अत एव "भासच्छन्ना इवऽग्गिणो" त्ति भस्मच्छन्नाः अनय इव, ते हि बहिरुपशमभाज आभान्ति अथ चान्तः कषायवत्तया ज्वलिताः, एवं च भवदभिमतब्राह्मणानामात्मपरोद्धरणक्षमत्वं दुरापास्तमिति भावः॥ कस्तर्हि भवदभिप्रायेण ब्राह्मणो यः पात्रम् ? इत्याह-यो लोके ब्राह्मण उक्तः कुशलैरिति गम्यते, सूत्रत्वाच्च सर्वत्र वचनव्यत्ययः, "अग्गी वा महिउ" त्ति 'वेति पूरणे, 'यथेति भिन्नक्रमः, ततो यथाऽग्निः | यत्तदोनित्याऽभिसम्बन्धात् तथा महितः सन् 'सदा सर्वदा, उपसंहारमाह-'कुशलसन्दिष्टं तत्त्वाभिज्ञकथित तं वयं बूमो ब्राह्मणम् ॥ इत उत्तरसूत्रैः कुशलसन्दिष्टस्वरूपमेव ब्राह्मणमाह-यो न 'स्वजति' स्वजनाऽभिष्वङ्गं करोति 'आगंतु' आगत्य स्वजनादिस्थानमिति गम्यते, 'प्रव्रजन्' तत एव स्थानान्तरं गच्छन्न शोचते, रमते 'आर्यवचने' तीर्थद्वचसि ॥ तथा 'जातरूपं' स्वर्णं यथा 'आमृष्टं तेजःप्रकर्षारोपणाय मनःशिलादिना परामृष्टम् , अनेनाऽस्य बाह्यो गुण उक्तः । "निद्धतमलपावगं" ति 'पावकनिर्मातमलं' ज्वलनदग्धकिट्टम् , अनेन चान्तरः। ततो जातरूपवद् बाह्याभ्यन्तरगुणान्वितः, ॥३०७॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy