________________
समुद्रपालस्य वक्तव्यता।
स नाण-नाणोवगए महेसी, अणुत्तरं चरित्रं धम्मसंचयं ।
अणुत्तरेनाणधरे जसंसी, ओभासई सूरिए वंतलिक्खे ॥ २३ ॥ व्याख्या-हित्वा' त्यक्त्वा "संगं थ" ति 'सङ्ग स्वजनादिसम्बन्धं 'थः' पूरणे निपातः, 'महालेशं' महादुःखं "महंतमोह" ति महामोहं कृत्स्नं समस्तं, महाक्लेशरूपत्वादेव विवे किनां भयावहम् , पर्यायः-प्रक्रमात् प्रव्रज्यापर्यायस्तत्र धर्मः पर्यायधर्मस्तं, 'चः' पूरणे, अभिरोचयेद् भवान हे आत्मन् ! इति प्रक्रमः। पर्यायधर्ममेव विशेषत आह'ब्रतानि' महाव्रतानि, 'शीलानि' उत्तरगुणरूपाणि 'परीषहानि'ति भीमन्यायेन परीषहसहनानि च ॥ एतदभिरुच्य अनन्तरं |च यत् कृत्यं तदाह-अहिंसा सत्यमस्तैन्यकं च ततश्च 'ब्रह्म' ब्रह्मचर्यम् अपरिग्रहं च प्रतिपद्य एवं पञ्च महाव्रतान्येतानि 'चरेत्' सेवेत, नाऽङ्गीकृत्यैव तिष्ठेदिति भावः, 'धर्म' श्रुत-चारित्ररूपं जिनदेशितं "विउ" त्ति विद्वान् । “सबेहिं भूएहिं" ति | सर्वेषु भूतेषु दयया-रक्षणरूपया अनुकम्पनशीलो दयानुकम्पी, क्षान्त्या न त्वशक्त्या क्षमते-प्रत्यनीकोदीरितदुर्वचनादिकं सहत इति क्षान्तिक्षमः, संयतते इति संयतः स चासौ ब्रह्मचारी च संयतब्रह्मचारी, पूर्वत्र ब्रह्मप्रतिपत्त्या गतत्वेऽपि ब्रह्मचारीत्यभिधानं ब्रह्मचर्यस्य दुरनुचरत्वख्यापनार्थम् ॥ 'कालेन' पादोनपौरुष्यादिना 'कालमिति कालोचितं प्रत्युपेक्षणादिकृत्यं कुर्वन्निति शेषः विहरेत् 'राष्ट्र मण्डले 'बलाबलं' सहिष्णुत्वाऽसहिष्णुत्वलक्षणं ज्ञात्वा, आत्मनो यथा यथा संयमयोगहानिर्न जायते तथा तथेत्यभिप्रायः । अन्यच्च सिंह इव 'शब्देन' प्रस्तावाद् भयोत्पादकेन 'न सत्रस्येत्' नैव | सत्त्वात् चलेदु भवानिति सर्वत्र गम्यते, अत एव च 'वाग्योगम्' अर्थाद् दुःखोत्पादकं श्रुत्वा न नैव असभ्यं “आहु" त्ति आर्पत्वाद् ब्रूयात् ॥ तर्हि किं कुर्यात् ? इत्याह-'उपेक्षमाणः' तमवधीरयन् परिव्रजेत् , तथा प्रियमप्रियं “सब" त्ति सर्व 'तितिक्षेत' सहेत । किञ्च न "सब” त्ति 'सर्व' वस्तु सर्वत्र स्थाने अभिरोचयेद्, यथादृष्टाऽभिलाषुको मा भूदिति