________________
उ०म० ३९
न प्रतिवक्ति, यथा - अहं क्षमिध्ये न वेति, 'ततः' कारणाद् राजा 'भयद्रुतः ' भयत्रस्तः, यथा न ज्ञायते किं किमेष क्रुद्धः करिष्यति ? इति । उक्तवांश्च - यथा सञ्जयनामा राजा अहमस्मि न तु नीच इत्यभिप्रायः, 'इति' अस्माद् हेतोर्भगवन् ! 'व्याहर' सम्भाषय 'मे' इति माम् । स्यात् — किमेवं भवान् भयद्रुतः ? इत्याह — ऋद्धः 'तेजसा ' तेजोलेश्यादिना अनगारो दहेद् नरकोटीः आस्तां शतं सहस्रं वेति, अतो भयद्रुतोऽहमिति सूत्रचतुष्टयार्थः ॥ ७-८- ९-१० ॥ इत्थं तेनोक्ते यन्मुनिरुक्तवांस्तदाह
१४ ॥
१५ ॥
अभयं पत्थिवा! तुभं, अभयदाया भवाहिय । अणिचे जीवलोगम्मि, किं हिंसाए पसज्जसि १ ॥११॥ जया सर्व्वं परिचज्ज, गंतवमवसस्स ते । अणिचे जीवलोगम्मि, किं रज्जम्मि पसज्जसि ? ॥ १२ ॥ जीवियं चैव रूवं च, विज्बुसंपायचंचलं । जत्थ तं मुज्झसि रायं !, पेचत्थं णाववुझसे ॥ १३ ॥ दाराणि य सुया चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुवयंति य ॥ णीहरंति मयं पुत्ता, पियरं परमदुक्खिया । पियरो वि तहा पुत्ते, बंधू रायं ! तवं चरे ॥ ततो तेणऽज्जिए दबे, दारे य परिरक्खिए । कीलंतऽन्ने नरा रायं !, हट्टतुट्ठमलंकिया ॥ तेणावि जं कयं कम्मं, सुहं वा जइ वा दुहं । कम्मुणा तेण संजुत्तो, गच्छई उ परं भवं ॥ व्याख्या -अभयं पार्थिव ! तव । इत्थं समाश्वास्योपदेशमाह - अभयदाता च भव, यथा भवतो मृत्युभयम् एवमन्येषामपीति भावः, चशब्दो योजित एव । अनित्ये जीवलोके किं हिंसायां प्रसजसि ? नरकहेतुरियं न कर्त्तुमुचितेति भावः ॥ | अन्यच्च - यदा 'सर्व' कोशान्तः पुरादि परित्यज्य गन्तव्यं भवान्तरमिति शेषः 'अवशस्य' अस्वतन्त्रस्य 'ते' तव, ततोऽनित्ये जीवलोके किं राज्ये प्रसजसि ? ॥ जीवलोकानित्यत्वमेव भावयितुमाह-जीवितं चैव रूपं च विद्युत्सम्पातः - विद्यु
१६ ॥
१७ ॥
सञ्जयराज - वक्तव्यता |