________________
XOX CXCXX CXCXCXCXCXCXCXCX
'आसने' पीठादौ 'अनायुक्तः' अनुपयुक्तः सन् शेषं प्राग्वत् ॥ १३ ॥ तथा सरजस्कपादः स्वपिति, किमुक्तं भवति ? - असंयमं प्रत्यभीरुतया पादावप्रमृज्यैव शेते, तथा 'शय्यां' वसतिं न प्रतिलेखयति, 'संस्तारके' कम्बलादौ सुप्त इति शेषः, 'अनायुक्त:' ''कुक्कुडिपायपसारण आयामेउं पुणो वि आउंटे" इत्याद्यागमानुपयुक्तः, शेषं तथैव ॥ १४ ॥ तपो| विपयं पापश्रमणत्वमाह - "दुद्धदहि" त्ति दधिदुग्धे, विकृतिहेतुत्वाद् विकृती, उपलक्षणत्वाद् घृताद्यशेपविकृतिपरिग्रहः, आहारयति 'अभीक्ष्णं' वारं वारं तथाविधपुष्टालम्बनं विनेति भावः, अत एव अरतश्च 'तपः कर्मणि' अनशनादौ, शेषं - प्राग्वत् ॥ १५ ॥ तथा अस्तमयति 'चः' पूरणे सूर्ये आहारयति 'अभीक्ष्णं' पुनः पुनर्दिने दिने इत्यर्थः, यदि चासौ केनचिद् गीतार्थसाधुना चोद्यते, यथा - आयुष्मन् ! किमेवं त्वयाऽऽहारतत्परेणैव स्थीयते ? दुर्लभा खल्वियं मनुजत्वादिचतुरङ्गसामग्री, तत एतामवाप्य तपस्युद्यन्तुमुचितमिति, ततः किम् ? इत्याह – “चोइओ पडिचोएइ" त्ति चोदितः प्रतिचोदयति, यथा— कुशलस्त्वमुपदेशदाने न तु स्वयमनुष्ठाने, अन्यथा किमेवमवगच्छन्नपि भवान् न विकृष्टतपोऽनु| तिष्ठति ?, शेषं तथैव ॥ १६ ॥ ' आचार्य परित्यागी' ते हि तपः कर्मणि विषीदन्तमुद्यमयन्ति, आनीतमपि चान्नादि बालग्लानादिभ्यो दापयन्ति, अतोऽतीबाहारलोभेन तत्परित्यजनशीलः । परपापण्डान्-सौगतादीन् “मृद्वी शय्या प्रातरुत्थाय पेया" इत्याद्यभिप्रायवतोऽत्यन्ताहारप्रसक्तान् सेवते - तथा तथोपसर्पति इति परपाषण्डसेवकः, तथा स्वेच्छाचारितया गणाद् गणं षण्मासाभ्यन्तर एव सङ्क्रामतीति गाणङ्गणिक इत्यागमिकी परिभाषा, अत एव दुष्टं भूतं - जातमस्य 'दुर्भूतः ' दुराचारतया निन्द्यो भूत इत्यर्थः ॥ १७ ॥ वीर्याचारविषयमाह — स्वकं गृहं परित्यज्य परगेहे "वावडि" त्ति 'व्याप्रियते' पिण्डाद्यर्थी स्वतस्तत्कृत्यानि कुरुते, 'निमित्तेन च' शुभाशुभकथनादिना 'व्यवहरति' द्रव्याद्यर्जनं करोति ॥ १८ ॥ "कुक्कुटी वत्पादप्रसारणं आयम्य पुनरपि आकुञ्चयेत् ।”
पापस्थानवर्जनवक्तव्यता ।