________________
सप्तदर्श
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया | सुखबोधाख्या लघुवृत्तिः ।
पापश्रमणीयाख्यमध्ययनम्।
पापस्थान
वर्जनवक्तव्यता।
॥२२६॥
केन्द्रियोपलक्षणं चैतद्, अत एवाऽसंयतः, तथा "संजय मन्नमाणे" त्ति कोऽर्थः ? संयतोऽहमिति मन्यमानः, अनेन च संविनपाक्षिकत्वमप्यस्य नास्तीत्युक्तम् , शेष प्राग्वत् ॥ ६ ॥ तथा 'संस्तारकं' कम्बलादि 'फलकं' दारुमयं 'पीठम्' आसनं 'निषद्यां' स्वाध्यायभूमि ‘पादकम्बलं' पादपुञ्छनम् 'अप्रमृज्य' रजोहरणादिना, उपलक्षणत्वाद् अप्रत्युपेक्ष्य च 'आरोहति' उपविशति यः स पापश्रमण इत्युच्यते ॥ ७ ॥ तथा 'दवद्वस्स" त्ति 'द्रुतं द्रुतं' तथाविधालम्बनं विनाऽपि त्वरितं त्वरितं | 'सश्चरति' भिक्षाचर्यादिषु पर्यटति 'प्रमत्तश्च प्रमादवांश्च भवति इति शेषः, 'अभीक्ष्णं' पुनः पुनः 'उल्लङ्घनश्च' वत्सडिम्भादीनामधःकर्ता, 'चण्डश्च' आरभटवृत्त्याऽऽश्रणयतः । चरमपादोऽत्रोत्तरत्र च प्राग्वत् ॥ ८ ॥ तथा प्रतिलेखयति प्रमत्तः सन् , 'अपोज्झति' यत्र तत्र निक्षिपति, किं तत् ? 'पादकम्बलं' पादपुञ्छनम् , समस्तोपध्युपलक्षणमेतत्, स एवं 'प्रतिलेखनाऽनायुक्तः' प्रत्युपेक्षाऽनुपयुक्तः ॥ ९॥ तथा प्रतिलेखयति प्रमत्तः स किश्चिदपि 'हुः' अप्यर्थे विकथादीति गम्यते, 'निशम्य' आकर्ण्य तत्राक्षिप्तचित्ततयेति भावः । गुरून् परिभावयति गुरुपरिभावको नित्यम् , किमुक्तं भवति ?-असम्यक्प्रत्युपेक्षमाणः अन्यद्वा वितथमाचरन् गुरुभिश्वोदितस्तानेव अभिभवति, यथा-स्वयमेव प्रत्युपेक्षध्वम्, युष्माभिरेव वयमित्थं शिक्षिताः ततो युष्माकमेवैष दोष इत्यादि ॥ १०॥ किञ्च-बहुमायी' प्रभूतवञ्चनाप्रयोगवान् 'प्रमुखरः' प्रकर्षण मुखरः स्तब्धः लुब्धः 'अनिग्रहश्च' अविद्यमानेन्द्रियनिग्रहः 'असंविभागी' गुरुग्लानादीनामुचितमशनादि न | यच्छति, "अचियत्ते" त्ति गुवादिष्वप्यप्रीतिमान् , शेषं तथैव ॥११॥ तथा 'विवादं' वाकलह 'चः' पूरणे 'उदीरयति' कथञ्चिदुपशान्तमपि उत्प्रासनादिना प्रवृद्धिं नयति, 'अधर्मः' निर्धर्मः, आप्तां-सद्बोधरूपतया हितां प्रज्ञाम्-आत्मनोऽन्येषां वा बुद्धिं कुतर्कव्याकुलीकरणतो हन्ति यः स आप्तप्रज्ञाहा, 'व्युद्वहे' दण्डादिघातजनिते विरोधे 'कलहे' वाचिके 'रक्तः' सक्तः, शेषं प्राग्वत् ॥ १२ ॥ तथा अस्थिरासनः कुकुचः प्राग्वत् । 'यत्र तत्र' संसक्तसरजस्कादावपीत्यर्थः निषीदति
॥२२६॥