________________
जन्मनि, भावनया-कुशलकर्माऽभ्यासरूपया भावितानि-वासितानि भावनाभावितानि अत एव 'अचिरेणैव' खल्पेनैव | कालेन दुःखस्य 'अन्तं' मोक्षम् 'उपागतानि' प्राप्तानि, सर्वत्र प्राकृतत्वात् पुल्लिङ्गनिर्देशः॥ मन्दमतिस्मरणायाध्ययनार्थमुपसंहर्तुमाह-राजा सह देव्या ब्राह्मणश्च पुरोहितो ब्राह्मणी दारको चैव सर्वाणि तानि 'परिनिर्वृतानि' मुक्तिं गतानीति सूत्रार्थः ॥ ५१-५२-५३ ।। 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।।
षण्णाम् इषुकारराजादीनां वक्तव्यता।
इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां
इषुकारीयाख्यं चतुर्दशमध्ययनं समाप्तम् ॥