SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ षण्णाम् इषुकारराजादीनां वक्तव्यता। XXOXOXOXOXOXOXXOXOXOXOX व्याख्या-जाति-जरा-मृत्युभयाभिभूतौ, बहिः संसाराद् विहारः-स्थानं बहिर्विहारः स चार्थाद् मोक्षस्तस्मिन्नभिनिविष्ट-बद्धाग्रहं चित्तं ययोस्तौ, तथा संसारः चक्रमिव संसारचक्र तस्य 'विमोक्षार्थ परित्यागनिमित्तं दृष्ट्वा साधूनिति शेषः, 'तो' अनन्तरोक्तौ 'कामगुणे' कामगुणविषये विरक्तौ प्रियौ-वल्लभौ तौ च तौ पुत्रावेव पुत्रको प्रियपुत्रको द्वावपि माहनस्य 'स्वकर्मशीलस्य' यजनयाजनादिस्वकीयानुष्ठाननिरतस्य 'पुरोहितस्य शान्तिकर्तः स्मृत्वा "पोराणिय" त्ति सूत्रत्वात् | पौराणिकी' चिरन्तनीं 'तत्र' सन्निवेशे जातिम् , तथा सुचीर्णं तपः संयमं च, अत्र कामगुणविरक्तिरेव जिनेन्द्रमार्गप्रति* पत्तिरिति सूत्रद्वयार्थः ॥ ४-५ ॥ ततस्तौ किमकार्टाम् ? इत्याह ते कामभोगेसु असन्जमाणा, माणुस्सएसुंजे यावि दिवा । मोक्खाभिकंखी अभिजायसद्धा, तातं उवागम्म इमं उदाहु ॥६॥ व्याख्या-'तो' पुरोहितपुत्रौ 'कामभोगेषु' उक्तरूपेषु "असजमाण" त्ति 'असजन्तौं सङ्गमकुर्वन्तौ 'मानुष्यकेषु' मनुजसम्बन्धिषु ये चाऽपि 'दिव्याः' देवसम्बन्धिनः कामभोगास्तेषु चेति प्रक्रमः, 'मोक्षाभिकाङ्किणी' मुक्त्यभिलाषिणी 'अभिजातश्रद्धौ' उत्पन्नतत्त्वरुची 'तातं' पितरमुपागम्य 'इदं वक्ष्यमाणं "उदाहु"त्ति 'उदाहरताम्' उक्तवन्ताविति सूत्रार्थः ॥ ६॥ यच तावुक्तवन्तौ तदाह असासयं दट्ट इमं विहारं, बहुअंतरायं न य दीहमाउं। तम्हा गिहंसि ण रइं लभामो, आमंतयामु चरिसामि मोणं ॥७॥ __ व्याख्या-'अशाश्वतम्' अनित्यं दृष्ट्वा 'इम' प्रत्यक्षं 'विहारं' मनुष्यत्वेनावस्थानम् , किमित्येवम् ? इत्याह-'बह्वन्तरायं' बहुव्याध्यादिविघ्नं 'न च' नैव दीर्घ 'आयुः जीवितम् , सम्प्रति पल्योपमायुष्कताया अप्यभावात् , यत एवं तस्माद्
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy