SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ XXXC मिध्यात्वगुप्तिविराधनादिभिरकलुषे, अनाविलत्वात् । आत्मनः - जीवस्य प्रसन्ना-मनागप्यकलुषा पीताद्यन्यतरा लेश्या यस्मिंस्तदात्मप्रसन्नलेश्यं तस्मिन् एवंविधे धर्महृदे ब्रह्माख्यशान्तितीर्थे च । “जहिंसि" त्ति यस्मिन् स्नात इव स्नातः अत्यन्त - शुद्धिभवनात् 'विमल' भावमलरहितोऽत एव 'विशुद्धः' गतकलङ्कः “सुसीतीभूतो" त्ति 'सुशीतीभूतः' रागात्तापविरहितः सुष्ठु शैत्यं प्राप्तः 'प्रजहामि' प्रकर्षेण त्यजामि दूषयति- विशुद्धमप्यात्मानं विकृतिं नयतीति दोषः - कर्म तम् । अनेनैतदाह – ममापि हृदतीर्थे एव शुद्धिस्थानं परमेवंविधे एवेति । निगमयितुमाह – 'एतदि' त्यनन्तरमुक्तं 'स्नानं ' रजोहानं कुशलैर्दृष्टम्, इदमेव च महास्नानं न तु युष्मत्प्रतीतम्, अस्यैव सकलमलापहारित्वात् अत एव ऋषीणां 'प्रशस्तं ' प्रशंसास्पदम्, न तु जलस्नानवत् सदोषतया निन्द्यम् । अस्यैव फलमाह -- “जहिंसि " त्ति सुव्यत्ययाद् येन स्नाता विमला विशुद्धा इति प्राग्वत्, 'महर्षयः' महामुनयः 'उत्तमं स्थानं' मुक्तिलक्षणं 'प्राप्ताः' गता इति सूत्रद्वयार्थः ॥ ४६-४७ ॥ 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । एवं चोपसम्पन्नेषु द्विजेषु यक्षेण प्रगुणीकृतास्ते छात्राः तत्कालोचितधर्मदेशनया च तान् प्रतिबोध्य गतः स्वविहारमसौ मुनिः || ॥ इति श्रीनेमिचन्द्रसूरिविनिर्मितायां सुखबोधायां उत्तराध्ययनसूत्रलघुटीकायां हरिकेशीयाख्यं द्वादशमध्ययनं समाप्तम् ॥ (OXXXX CXXOXOXOXOXOXOX हरिकेशमुनेः सौत्री वक्तव्यता ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy