SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधा या लघुवृत्तिः । ॥ १८३ ॥ FOXOXOX व्याख्या - षड्जीवकायान् 'असमारभमाणाः' अनुपमर्दयन्तः, “मोसं" ति 'मृषा' अलीकभाषणम् 'अदत्तं च' अदत्तादानं च असेवमानाः परिग्रहं स्त्रियो मानं मायां तत्सहचरितत्वात् कोप- लोभौ च, 'एतद्' अनन्तरोक्तं परिग्रहादि 'परिज्ञाय' ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याख्याय 'चरन्ति' यागे प्रवर्त्तन्ते 'दान्ताः' इन्द्रिय- नोइन्द्रियमेन यतय इति गम्यते । यत एवमतो भवद्भिरप्येवं चरितव्यमिति सूत्रार्थः ॥ ४१ ॥ प्रथमप्रश्नप्रतिवचनमुक्तम्, शेषप्रश्रनिर्वचनमाह - सुसंकुडा पंचहिं संवरेहिं, इह जीवियं अणवकंखमाणा । बोसकाए सुइचत्तदेहा, महाजयं जयई जन्नसिहं ॥ ४२ ॥ व्याख्या—'सुसंवृताः' स्थगितसमस्ताश्रवद्वाराः, 'पञ्चभिः संवरैः' प्राणातिपातविरत्यादित्रतैः 'इह' मनुष्यजन्मनि उपलक्षणत्वात् परत्र च 'जीवितं ' प्रस्तावाद् असंयमजीवितम् 'अनवकाङ्क्षन्तः' अनभिलषन्तः अत एव व्युत्सृष्टकायाः' परीषहोपसर्गसहिष्णुतया त्यक्तकायाः, शुचयः - अकलुषितव्रतास्ते च ते त्यक्तदेहाश्च - अत्यन्तनिष्प्रतिकर्मतया शुचित्यक्तदेहाः, महान् जय: - कर्मशत्रुपराभवनलक्षणो यस्मिन् स महाजयस्तं " जयई” ति वचनव्यत्ययाद् यजन्ति मुनयः, ततो भवन्तोऽप्येवं यजन्तां “जन्नसेढुं" ति प्राकृतत्वात् श्रेष्ठयज्ञम् । श्रेष्ठवचनेन च एतद् यजनं स्विष्टं कुशला वदन्ति, एष एव च कर्मप्रणोदनोपाय इत्युक्तं भवतीति सूत्रार्थः ॥ ४२ ॥ यत् ईदृग्गुणः श्रेष्ठयज्ञं यजते ततस्त्वमपि ईदृग्गुण एव, तथा च तं यजमानस्य कानि उपकरणानि ? को वा यजनविधिः ? इत्यभिप्रायेण ते एवमाहु: ते जोई ? के व जोइठाणा ?, का ते सूया? किं व ते कारिसंगं ? । हाय ते करा संति ? भिक्खू !, कयरेण होमेण हुणासि जोई ? ॥ ४३ ॥ व्याख्या—'के' इति किं 'ते' तव 'ज्योतिः ?' अग्निः ?, किं वा ते ज्योतिःस्थानम् ? यत्र ज्योतिर्निधीयते, काः 'श्रुवः ?” XCXCXCXCXCX द्वादशं हरिकेशी याख्यमध्ययनम् । हरिकेशमुनेः सौत्री वक्तव्यता । ॥ १८३ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy