________________
बहुश्रुतस्तवः।
जहा से सहस्सक्खे, वज्रपाणी पुरंदरे । सके देवाहिवई, एवं हवइ बहुस्सुए ॥२३॥ व्याख्या-यथा स सहस्रमणामस्येति 'सहस्राक्षः' सहस्रलोचनः, अत्र सम्प्रदायः-"सहस्सक्ख त्ति पञ्च मंतिसयाइ देवाणं इंदस्स, तस्स तेसिं सहस्समच्छीणं, तेसिं नीईए विक्कमइ, अहवा जं सहस्सेणं अच्छीणं दीसइ तं सो दोहिं अच्छीहिं अब्भहियतरागं पेच्छइ” त्ति। व-वनाभिधानमायुधं पाणौ अस्येति वत्रपाणिः, लोकोक्त्या च पूर्दारणात् पुरन्दरः, क ईदृग् ? इत्याह-शक्रो देवाधिपतिः, एवं भवति बहुश्रुतः । सोऽपि हि श्रुतज्ञानेनाशेषातिशयरत्ननिधानेन |लोचनसहस्रेणैव जानीते, यश्चैवंविधः तस्य सल्लक्षणतया वज्रमपि लक्षणं पाणौ सम्भवतीति वज्रपाणिः, पू: शरीरमप्युच्यते, तद् विकृष्टतपोऽनुष्ठानेन दारयति कृशीकरणादिति पुरन्दरः । देवैरपि धर्मेऽत्यन्तनिश्चलतया पूज्यत इति तत्पतिरप्युच्यते, तथा चाह-"देवा वि तं णमंसंति, जस्स धम्मे सया मणो" त्ति सूत्रार्थः ॥ २३ ॥ अपि च
जहा से तिमिरविद्धंसे, उत्तिटुंते दिवायरे । जलंते इव तेएण, एवं हवइ बहुस्सुए ॥ २४ ॥ व्याख्या-यथा सः 'तिमिरविध्वंसः' अन्धकारापहारकः 'उत्तिष्ठन्' उद्गच्छन् 'दिवाकरः' सूर्यः, स हि उर्दू नभोभागमाक्रामन् अतितेजस्वितां भजते अवतरंस्तु न तथेत्येवं विशिष्यते, 'ज्वलन्निव' ज्वालां मुञ्चन्निव 'तेजसा' महसा, एवं भवति बहुश्रुतः । सोऽपि ह्यज्ञानतिमिरापहारकः संयमस्थानेषु विशुद्धविशुद्धतराध्यवसायत उत्सर्पन तपस्तेजसा ज्वलन्निव भवतीति सूत्रार्थः ॥ २४ ॥ अन्यच्च
जहा से उडुवई चंदे, णक्खत्तपरिवारिए। पडिपुन्ने पुन्नमासीए, एवं हवइ बहुस्सुए ॥२५॥ व्याख्या-यथा स उडूनां-नक्षत्राणां पतिः उडुपतिः 'चन्द्रः' शशी नक्षत्रैः-अश्विन्यादिभिरुपलक्षणत्वात् ग्रहस्तारादिभिश्च परिवारितो नक्षत्रपरिवारितः, 'प्रतिपूर्णः' समस्तकलोपेतः, कदा ? इत्यत आह-पौर्णमास्याम् । इह च पतिरपि