SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । दशमं दुमपत्राख्यमध्ययनम् । अप्रमादार्थ वीरप्रभोरनुशासनम् । ॥१६२॥ भिन्नक्रमश्च, ततो दुर्लभैव, किमिति ? यतः 'कुतीर्थिनिषेवकः' शाक्यौलूक्यादिकुपाखण्डिपर्युपासकः 'जन' लोकः, कुतीर्थिनो हि लाभार्थिनो यदेव प्राणिनां प्रियं तदेवोपदिशन्ति तत्तीर्थकृतामप्येवंविधत्वात् । उक्तं हि-"सत्कारयशोलाभार्थिभिश्च मूढैरिहान्यतीर्थकरैः। अवसादितं जगदिदं, प्रियाण्यपध्यान्युपदिशद्भिः ॥१॥” इति ॥ सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमधर्मश्रुतिः ?, अतः समयमपि गौतम ! मा प्रमादीः । किञ्च-लब्ध्वाऽपि उत्तमां 'श्रुतिम्' उत्तमधर्मश्रवणात्मिकां श्रद्धानं पुनरपि दुर्लभम्, इह हेतुमाह-मिथ्यात्वनिषेवकः जनः, अनादिभवाभ्यासतया गुरुकर्मतया च तत्रैव प्रायः प्रवृत्तेः, अतः समयमपीति पूर्ववत् ॥ अन्यच्च 'धर्ममपि' प्रक्रमात् सर्वज्ञप्रणीतम् | 'अपिः' भिन्नक्रमः 'हु' वाक्यालङ्कारे, ततः 'श्रद्दधतोऽपि' कर्त्तमभिलषतोऽपि दुर्लभकाः 'कायेन' शरीरेण 'स्पर्शकाः'। अनुष्ठातारः, कारणमाह-'इह' अस्मिन् जगति 'कामगुणेषु' शब्दादिषु 'मूञ्छिताः' गृद्धा जन्तव इति शेषः । प्रायेणाऽपथ्येष्वभिष्वङ्गःप्राणिनाम् । यत उक्तम्-"प्रायेण हि यदपथ्यं, तदेव चाऽऽतुरजनप्रियं भवति । विषयातुरस्य जगतो, यथानुकूलाः प्रिया विषयाः ॥ १॥" यतश्चैवमतो दुरापामिमा सामग्रीमवाप्य समयमपि गौतम! मा |प्रमादीरिति सूत्रपञ्चकार्थः ॥ अन्यच्च सति शरीरसामध्ये धर्मस्पर्शनेति तदनित्यताभिधानद्वारेणाप्रमादोपदेशमाह परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से सोयबले य हायई. समयं गोयम! मा पमायए ॥ २१ ॥ परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से चक्खुबले य हायई, समयं गोयम! मा पमायए ॥ २२ ॥ ॥१२॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy