________________
श्रीउत्तरा-
श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
दशमं दुम
पत्राख्यमध्ययनम्।
अप्रमादार्थ वीरप्रभोरनुशासनम्।
॥१६॥
XXXOXOXOXOXOXOXOXOXXX
ते ह्यत्यन्ताल्पबोधतया तत उद्धृता अपि न प्रायो विशिष्टं मानुपादिभवमाप्नुवन्ति । इह च सङ्ख्यातीतग्रहणे असङ्ख्याता अनन्तग्रहणे चाऽनन्ता उत्सर्पिण्यवसर्पिण्योऽवगन्तव्याः । यत आगमः-"अस्संखोसप्पिणिउसप्पिणीउ एगिंदियाण उ चउण्हं । ता चेव ऊ अणंता, वणस्सईए उ बोधवा ॥ १॥" तथा द्वीन्द्रियकायमतिगतः उत्कर्षतो जीवः संवसेत् कालं 'सङ्ख्येयसंज्ञितं' सङ्ख्यातवर्षसहस्रात्मकम् , अतः समयमपीति पूर्ववत् ।। एवं त्रीन्द्रिय-चतुरिन्द्रियसूत्रे । पञ्चेन्द्रिया |उत्तरत्र देवनारकयोरभिधानात् मानुषत्वस्य तु दुर्लभत्वेन प्रक्रान्तत्वात् तिर्यश्च एवं गृह्यन्ते, तत्कायमतिगतः उत्कर्षतो जीवः संवसेत् सप्त वा अष्ट वा सप्ताष्टानि भवग्रहणानि, अतः समयमपीति पूर्ववत् । दैवान् नैरयिकांश्च अतिगत उत्कर्षतो जीवः संवसेत् एकैकभवग्रहणम् , अतः समयमपि गौतम ! मा प्रमादीरिति सूत्रदशकार्थः ॥ उक्तमेवार्थमुपसंहरन्नाहएवं भवसंसारे, संसरति सुभासुभेहि कम्महिं।जीवोपमायबहुलो,समयं गोयम! मा पमायए १५
व्याख्या-'एवम्' उक्तप्रकारेण भवा एव-तिर्यगादिजन्मान्येव संसारो भवसंसारः तस्मिन् 'संसरति' पर्यटति | शुभाशुभैः कर्मभिर्जीवः प्रमादबहुलः, अतः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ १५ ॥ एवं मनुजभवदुर्लभत्वमुक्तम् । इदानीं तदवाप्तावप्युत्तरोत्तरगुणावाप्तिरतिदुरापैव इत्याह
लढूणऽवि माणसत्तणं. आयरियत्तं पुणरावि दल्लभं । बहवे दसुया मिलेक्खया, समयं गोयम! मा पमायए ॥१६॥ लणऽवि आयरियत्तणं, अहीणपंचिंदियया हु दुल्लहा।
विगलिंदियया हु दीसई, समयं गोयम! मा पमायए ॥१७॥ १ "असङ्ख्योत्सर्पिण्यवसर्पिण्य एकेन्द्रियाणां तु चतुर्णाम् । ताश्चव स्वनन्ता वनस्पतेस्तु बोधव्याः ॥ १॥"
XOXOXOXOXOXOXOXOXOXOX63
॥१६१॥