________________
नवमं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१४५॥
OXOXOXOXOXOXOXOXOXOXOXOXO
|बहवः, तदैव कृत्यकरत्वं कर्तुं तवोचितमित्युपस्कारः, तेषां कृत्यं परापराधपरिभावनादिकं कर्त्तव्यं परित्यज्य आर्यकृत्यकरःनियुक्तकोऽन्यदोषचिन्तको भवान् किमिति जात इति शेषः। ताहे गंधारो भणइ-जया सवं परिचज, मोक्खाय घडसी भवं । परं गरहुसी कीस ?, अत्तनीसेसकारए ॥ १॥ ताहे करकंडू भणइ-मोक्खमग्गं पवन्नेसु, साहूसु बंभयारिसु । अहियत्थं निवारितो, न दोसं वत्तुमरिहसि ॥१॥ सुव्यत्ययादहितार्थानिवारयन्तं न 'दोष' मतुलोपाद् दोषवन्तं वक्तमर्हसि । तथा चार्षम् - "रूसऊ वा परो मा वा, विसं वा परियत्तउ । भासियत्वा हिया भासा, सपक्खगुणकारिया ॥१॥" इमामनुशास्तिं करकण्डुकृतां ते प्रतिपन्नाः । कालेन चत्वारोऽपि मोक्षं गता इति ॥ साम्प्रतं सूत्रमनुस्रियतेचइऊण देवलोगा, उववन्नोमाणुसम्मि लोगम्मि। उवसंतमोहणिज्जो, सरह य पोराणियं जाई॥१॥
व्याख्या-च्युत्वा देवलोकाद् उत्पन्नो मानुष्यके लोके उपशान्तमोहनीयः स्मरति पुराणामेव 'पौराणिकी' चिरन्तनी | 'जाति' जन्म । वर्तमाननिर्देशः सर्वत्र तत्कालविवक्षयेति सूत्रार्थः ।। १ ।। ततः किम् ? इत्याहजाइं सरित्तु भगवं, सहसंबुद्धो अणुत्तरे धम्मे । पुत्तं ठवेत्तु रजे, अभिनिक्खमई णमी राया ॥२॥
व्याख्या-जातिं स्मृत्वा 'धैर्य-सौभाग्य-माहात्म्य-यशो-ऽर्क-श्रुत-धी-श्रियः । तपो-ऽर्थोपस्थ-पुण्येश-प्रयत्न-तनवो या भगाः ॥ १॥ इतिवचनादनेकार्थोऽपि भगशब्दोऽत्र घटमाने धैर्यादावर्थे प्रवर्तते । ततश्च 'भगवान्' धयोदिमान,
"सह" त्ति 'स्वयम्' आत्मनैव सम्बुद्धः सहसम्बुद्धो नान्येन प्रतिबोधितः । क ? इत्याह-'अनुत्तरे' प्रधाने 'धम्म' चारित्रधर्मे पुत्र स्थापयित्वा राज्ये 'अभिनिष्कामति' प्रव्रज्यां गृहाति 'नमिः' नमिनामा 'राजा' पृथ्वीपतिरिति सूत्राथः ॥२॥ | किं कृत्वाऽभिनिष्कामति ? इत्याहसो देवलोगसरिसे, अंतेउरवरगतो वरे भोए । भुंजित्तु णमी राया, बुद्धो भोगे परिचयइ ॥ ३॥
नमिप्रवज्याऽऽख्यमध्ययनम्। प्रत्येकबुद्धचतुष्टयस्य मोक्षगम__ नम्। नमिराजर्षेः
सौत्रीवक्तव्यता।
॥१४५॥