________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघु
वृत्तिः ।
॥ १३२ ॥
भावः । “इत्थि” त्ति स्त्रियः “विप्पज हे " त्ति विप्रजह्यात् । पूर्वत्र नारीग्रहणाद् मनुष्यस्त्रिय एवोक्ताः, इह पुनर्देवतिर्यक्सम्बन्धि| न्योऽपि त्याज्यतया उच्यन्ते इति न पौनरुक्त्यम्, उपदेशत्वाद्वा । 'अनगारः' प्राग्वत् किं पुनः कुर्यात् ? इत्याह- 'धर्ममेव' ब्रह्मचर्यादिरूपम्, चस्यावधारणार्थत्वात्, 'पेशलम्' इह परत्र चैकान्तहितत्वेनाऽतिमनोज्ञं 'ज्ञात्वा' अवबुध्य 'तत्रे'ति | धर्मे 'स्थापयेत्' निवेशयेत् 'भिक्षुः' यतिः आत्मानं विषयाभिलाषनिषेधादिति सूत्रार्थः ||१९|| अध्ययनार्थोपसंहारमाह - इइ एस धम्मे अक्खाए, कविलेणं च विसुद्धपन्नेणं ।
तरिहिंति जे उ काहिंति, तेहिं आराहिया दुवे लोग ॥ २० ॥ त्ति बेमि ॥
व्याख्या- 'इती' त्यनेन प्रकारेण 'एषः' अनन्तरोक्तरूपः 'धर्म्मः ' यतिधर्म्मः ' आख्यातः ' कथितः । केन ? इत्याह'कपिलेन' इत्यात्मानमेव निर्दिशति, पूर्वसङ्गतिकत्वाद् अमी मद्वचनतः प्रतिपद्यन्तां धर्म्ममिति । 'चः' पूरणे । 'विशुद्धप्रज्ञेन' निर्मलावबोधेन, अतोऽर्थसिद्धिमाह – “तरिहिंति” त्ति तरिष्यन्ति भवाम्भोधिमिति शेषः । 'ये' इत्यविशेषाभिधाने, 'तुः' पूरणे, ततोऽविशेषत एव तरिष्यन्ति ये 'करिष्यन्ति' अनुष्ठास्यन्ति प्रक्रमादमुं धर्म्मम् । अन्यच्च तैः 'आराधितौ' सफलीकृतौ 'द्वौ' द्विसंख्यौ 'लोकौ' इहपरलोकावित्यर्थः, इह महाजनपूज्यतया परत्र च निःश्रेयसाऽभ्युदयप्राप्त्येति सूत्रार्थः ॥ २० ॥ 'इति' परिसमाप्तौ ब्रवीमीति प्राग्वदिति ॥
इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनलघुटीकायां सुखबोधायां कापिलीयाख्यं अष्टममध्ययनं समाप्तम् ॥
XXX
XCXCXCX
अष्टमं कापिलीय
मध्ययनम् । कपिलकेवलिना साधुधर्मकथनम् ।
॥ १३२ ॥